SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुन्याससंवलिते [पा० १ सू० १७.] अल्पे वायावल्पप्राणता, महति महाप्रारणता जायते; महाप्राणत्वादूष्मत्वम् । यदा सर्वाङ्गानुसारी प्रयत्नस्तीव्रो भवति तदा गात्रस्य निग्रहः कण्ठबिलस्य चारण, त्वं स्वरस्य च वायोस्तीव्रगतित्वाद् रौक्ष्यं भवति तमुदातमाचक्षते । यदा तु मन्दः प्रयत्नो भवति तदा गात्रस्य स्रं सनं कण्ठबिलस्य च महत्त्वं स्वरस्य च वायोर्मन्दगतित्वात् स्निग्धता भवति तमनुदात्तमाचक्षते । 5 उदात्ताऽनुदात्तस्वरसंनिपातात् स्वरित इत्येष कृत्स्नो बाह्यः प्रयत्न इति । अथवा विवारादयो वर्णनिष्पत्तिकालादूर्ध्वं वायुवशेनोत्पद्यन्ते, स्पृष्टतादयस्तु स्थानाऽऽस्यप्रयत्नव्यापारेण वर्णोत्पत्तिकाल एवेति वनिष्पत्तिकालभावाऽभावाभ्यां विवारादीनां बाह्यत्वम् स्पृष्टतादीनां चाभ्यन्तरत्वम् । तत्र वर्गाणां प्रथम-द्वितीयाः श ष स विसर्ग - जिह्वामूलीयोपध्मानीयाश्च विवृत- 10 कण्ठाः श्वासानुप्रदाना प्रघोषाः । वर्गाणां तृतीय चतुर्थ- पञ्चमा अन्तस्था हकाराऽनुस्वारौ च संवतकण्ठा नादानुप्रदाना घोषवन्तः । वर्गाणां प्रथमतृतीय - पञ्चमा अन्तस्थाश्वाल्पप्राणाः । इतरे सर्वे महाप्रारणाः । स्थानग्रहणं किम् ? क-च-ट-त पानां तुल्याऽऽस्यप्रयत्नानामपि भिन्नस्थानानां मा भूत्, किञ्च स्यात् 'तर्ता, ततुं' म्' इत्यत्र' "धुटो धुटि स्वे वा " [१. ३. ४८. ] is इति पकारस्य तकारे लोपः स्यात् । ग्रास्यप्रयत्नग्रहणं किम् ? चवर्ग-यशानां तुल्यस्थानानामपि भिन्नाऽऽस्यप्रयत्नानां मा भूत् किञ्च स्यात् ? 'अरुश् 'श्च्योतति' इत्यत्र “धुटो धुटि स्वे वा" [१. ३. ४८. ] इति शकारस्य चकारे लोपः स्यात् । स्वप्रदेशाः - “इवर्णादिरस्वे स्वरे यवरलम्" [१. २. २१.] इत्यादयः ।। १७ ।। १६] 20 न्या० स०--तुल्य० - तोल्यतेऽनया भिदाद्यङि तुला, तुलया संमितस्तुल्यः “हृद्य-पद्य०” [ ७. १. ११. ] इत्यादिना यः । प्रयत्न उत्साहः । नासिकोष्ठौ चेति-व्यस्तावेतौ समासे तु " प्राणितूर्य ० " [ ३. १. १३७ ] इति समाहारः स्यात् । कलयति ईषदास्यभावम्, अच्, अल्पाद्यर्थे कपि रणके वा, कु ईषत् कलक: काकलक: "अल्पे" [३. २. १३६ ] इति कादेशः; काकलक इति संज्ञा यस्य स तथा ग्रीवायामुन्नतप्रदेश: 125 अन्तर इति - अन्तरा भवः " भवे" [ ६. ३. १२३. ] अरण, अन्तर्जातो वा भवे त्वर्थे दिगादित्वाद् यः स्यात् । स्पृश्यन्ते स्म स्पृष्टा वरर्णाः, तेषां भावः स्पृष्टता - वर्णानां प्रवृत्तिनिमित्तन्; स्पृष्टताहेतुत्वात् प्रयत्नोऽपि स्पृष्टता, "अभ्रादिभ्यः" [ ७. २. ४६ ] इत्यप्रत्यये वा, संज्ञाशब्दत्वात् स्त्रीत्वम् । प्रयत्नानां संज्ञा इमा यथाकथञ्चिद् व्युत्पाद्यन्ते, एवं सर्वत्र । एवमीषत्स्पृष्टताऽपि । विव्रियन्ते स्म विवृता वर्णास्तेषां भावः, ईषद् विव्रियन्ते 30 स्मेत्यादि । करणमिति - वर्णोत्पत्तिकाले स्थानानां प्रयत्नानां च सहकारि कारणम् । सर्वेति सर्वं मुखं स्थानमस्य, मुखस्थितानि सर्वाण्यपि स्थानानि प्रवर्णस्येत्यर्थः । कण्ठतालव्याविति - कण्ठतालुनि भवौ देहांशसमुदायादपि यः । स्वरेषु ए-श्रो विवृततराविति -
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy