________________
[पा० १. सू० १३३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५२१
न्या० स०--पशुव्यञ्ज०। अत्रावयवावयविसंबन्धे षष्ठी, तेन पश्ववयवो व्यञ्जनावयवश्च द्वद्व इत्यर्थः । अत्र पशवो ग्राम्या गवादयो ग्राह्या न त्वारण्या: कुरङ्गादयः । उत्तरत्र मृगग्रहणात्। व्यञ्जनमिति व्यञ्जनं येनान्न रुचिमापद्यते तद्दधिघृतशाकसूपादि। स्वैरिति अत्रापि पशुत्वेन व्यञ्जनत्वेन च स्वत्वम् । वृष्णिस्तभमित्यत्र स्तभेः सौत्रादचि स्तभोऽजः, पशुव्यञ्जनानामिति बहुवचनात् बहूनां 5 पशुद्ध द्वे सेनाङ्गानां यदेकत्वं नित्यं तदनेन बाध्यते । तेन हस्त्यश्वं हस्त्यश्वा भवतीति न्यासः ।। ३.१.१३२॥
तरुतूणधान्यमूगपक्षिणां बहूत्वे ॥३. १. १३३ ॥
एतेषां बहुत्वे वर्तमानानां प्रत्येकं स्वैर्द्वन्द्व एक एकार्थो वा भवति । तरु, प्लक्षाश्च न्यग्रोधाश्च प्लक्षन्यग्रोधम् प्लक्षन्यग्रोधाः, एवं धवाश्वकर्णम्10 धवाश्वकर्णाः, तृण-कुशकाशम्, कुशकाशाः, मुजवल्वजम्, मुजवल्वजाः, धान्य-तिलमाष, तिलमाषाः, व्रीहियवम् व्रीहियवाः, मृग-रुरुपृषतम्, रुरुपृषताः, ऋश्यणम्, ऋश्यैणाः, पक्षिन्-हंसचक्रवाकम्, हंसचक्रवाकाः, तित्तिरिकपिञ्जलम्, तित्तिरिकपिजलाः । एकस्यापि पदस्य बहुत्वे भवति-प्लक्षश्च न्यग्रोधाश्च प्लक्षन्यग्रोधम् प्लक्षन्यग्रोधाः, प्लक्षौ च न्यग्रोधाश्च प्लक्षन्यग्रोधम् प्लक्षन्यग्रोधा15 इत्यादि । बहुत्व इति किम् ? प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ, प्लक्षौ च न्यग्रोधौ च, प्लक्षश्च न्यग्रोधौ चेति वा प्लक्षन्यग्रोधाः । स्वरित्येव ? प्लक्षयवाः, गोपृषताः आरण्याः पशवो मृगा इति मृगाणामपि पशुत्वात् पशुविकल्पेनैव सिद्धे मृगाणामिहोपादानम् अमृगैरबहुत्वे चैकत्वाभावार्थम् ।। १३३ ।।
न्या० स०--तरुतृण। तरुरिति सामान्येनोक्तऽपि तरुविशेषा गृह्यन्ते । तेन तरवश्च वृक्षाश्चेति धवाश्च वृक्षाश्चेति वा कृते इतरेतरयोग एव। प्लक्षाश्चेत्यादि ननु वृत्तौ वत्तिपदार्थानामभेदैकत्वसंख्याया एव भावात् कथमत्र बहुत्वम् ? नैवं, यत्र संख्या भेदप्रतिपत्ती निबन्धनमस्ति तत्र वत्तिपदान्यपि तमेव संख्याभेदमुपाददते। बहुत्वपरिग्रहे चाऽत्र एकवद्धावो निबन्धनं तत्रैव तस्य भावादित्यदोषः । हंसचक्रवाकमित्यत्र चक्र-2: वाकमित्यत्र चक्र इति वाक पाख्या यस्य । अथवा वचनं वाकश्चक्रस्येव वाको येषां ते चक्रवाकाः। प्लक्षौ च न्यग्रोषौ चेति तरुतृणादीनां द्वद्वावयवानामेव बहुत्व इति विशेषणात् द्वंद्वस्य बहुत्वेऽपि न समाहारः। अमृगैरबहुत्वे चेति यदा ग्राम्यपशूनामरण्यपशुभिः सहोक्तिर्भवति तदा माभूदित्यर्थः ।। ३. १. १३३ ।।
20