SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ५२२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० १३४.] सेनाक्ष दजन्तूनाम् ॥ ३. १. १३४ ॥ सेनाङ्गानां क्षुद्रजन्तूनां च बहुत्वे वर्तमानानां स्वैर्द्वन्द्व एक एकार्थो नित्यं भवति, पृथग्योगाद्वति निवृत्तम् । सेनाङ्गम्, अश्वाश्च रथाश्चाश्वरथम्, रथिकाश्वारोहम्, हस्त्यश्वम्, केचित्तु सेनाङ्गानां पशूनां पशुलक्षणं विकल्पमिच्छन्ति-हस्त्यश्वम् हस्त्यश्वाः । क्षुद्रजन्तवोऽल्पकायाः प्राणिन प्रानकुलमिह 5 स्मर्यन्ते, यूकालिक्षम्, यूकामत्कुणम्, दंशमशकम्, शतश्वश्चोत्पादकाश्च शतशूत्पादकम् । कीटपिपीलिकम् । बहुत्व इत्येव ? सादिनिषादिनौ, अश्वरथौ, यूकालिक्षे, स्वैरित्येव ? हस्तिमशकाः ॥ १३४ ।। न्या० स०-सेनाङ्गक्षुद्र०। अत्रापि सेनाङ्गत्वादिना स्वत्वं । एषु सर्वेषु बहुवचनमेकार्थविधेः क्वचिदन्यत्वख्यापनार्थमित्युपाध्यायसंप्रदायः । पृथग्योगादिति अन्यथा-10 र्थस्य समानत्वात् पूर्वेणैकयोगः स्यादित्यर्थः। अत्र यथाश्वरथमिति भवति तथा हस्त्यश्वारोहमिति न स्वकीयत्वाभावात् । न च वाच्यं सेनाङ्गत्वेन स्वत्वमिति । यतो सेनाङ्गष्वपि प्रारोह्याणामारोह्यणारोहकाणामारोहकेण च स्वत्वमिष्यते । अत्र च तथेति । एवं प्राणितूर्याङ्गाणामित्यत्राऽपि तूर्याङ्गेषु वाद्यानां वाद्येन वादकानां वादकेन च स्वत्वं दृश्यम् । केचित्त्वित्यत्र जयादित्यः, इदं तु 'पशुव्यञ्जनानाम्' [३. १. १३२.] 15 इति सूत्रे बहुवचनात् संगृहीतम् । क्षुद्रजन्तव इत्यत्र क्षुद्रशब्दोऽनेकार्थः, क्वचिदङ्गहीने . शीलहीने। शोलहीनेऽत्र वर्तते यथा 'क्षुद्राभ्य एरण्वा' [६. १. ८०] इति, अत्र हि शीलहीना अङ्गहीनाश्च स्त्रियो विज्ञायन्ते । क्वचित् कृपणे वर्तते यथा क्षुद्रो देवदत्तः, क्वचिदल्पपरिमाणे-यथा क्षुद्रास्तन्दुला इति । तत्रेह प्रतिषेधविषये प्रारम्भोपयोगात् क्षुद्राः प्राणिन एव प्रतिपाद्यन्ते इति जन्तुग्रहणमतिरिच्यते, तस्मात्तदुपादानसामर्थ्यादल्प-20 परिमारणा: प्राणिविशेषाः क्षुद्रजन्तुशब्देनोच्यन्ते इत्याह-क्षुद्रजन्तव इति । 25 क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः । शतं वा प्रसृतिर्येषां केचिदा नकुलादपि ।। १ ॥ क्षुद्रजन्तुरकाङ्कालो, येषां स्वं नास्ति शोणितम् । नाबलियत् सहस्रण केचिदा नकुलादिति ।। २ ॥ द्वे अप्येकार्थे । आनकुलमिह स्मर्यन्ते इत्यत्र नकुलादारभ्य ये हीनकाया वा नकुलादयस्ततोऽप्यपचितपरिमाणाश्च यावत् कुन्थव इति क्षुद्रजन्तवः शिष्टः स्मर्यन्ते । यूकालिक्षमित्यत्र 'ऋजिऋषि' ५६७ (उणादि) इति कित् सप्रत्यये ऋफिडादित्वाद् रस्य लत्वम् ।। ३.१.१३४।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy