SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ [ पा० १ सू० १३१-१३२.] न्या स० -- विरोधिनामद्रव्याणामिति । अत्र गुणादीनामाश्रयो द्रव्यं गृह्यते न तु वैयाकरणप्रसिद्धमिदं तदित्यादिलक्षणम् । तस्मिंस्तु गृह्यमाणे सुखदुःखादीनामपि द्रव्यत्वप्रसङ्गः । छायातपमिति न भवति तयोर्द्रव्यत्वात् । सजातीयैरेवेति समानजातीयमविरोधि यद्यवयवान्तरमस्य न भवतीत्यर्थः । एतावता विरोधिपदारब्धत्वेन द्व ंद्वस्य सजातीयारब्धत्वमुक्तम् । रूपरसगन्धस्पर्शाः इत्यत्र रूपादीनामेकस्मिन्नपि नारङ्गादिपदार्थे 5 सहावस्थानाद विरोधाभावान्नायं विधिरिति । सुखदुःखाविमौ इत्यत्र सुखदुःखौ शीतोष्णौ उपचाराद् द्रव्ये वर्त्तेते । बुद्धिसुखदुःखानीति अत्र सुखदुःखे विरोधिनी बुद्धिस्त्वविरोधिनीति अविरोध्यवयवोऽप्यसौ द्वंद्व इति वचनान्न कवद्भावः । समाहारे चेत्यादि अनेकश्च नियमो वाक्यभेदेन समर्थ्यते, सर्वत्राऽपि च प्रत्युदाहरणं व्यवच्छेद्यम् ।। ३. १. १३० ।। ५२० ] बृहद्वृत्ति-लघुन्याससंवलिते अश्ववडवपूर्वापराधरोत्तराः ॥ ३. १. १३१ ॥ अश्ववडवेति पूर्वापरेति अधरोत्तरेति त्रयो द्वंद्वा एकार्था वा भवन्ति, स्वैः । अश्वश्च वडवा चाश्ववडवम् ग्रश्ववडवौ - प्रश्ववडवेति निर्देशादेवेतरेतरयोगे ह्रस्वत्वं निपात्यते, पूर्वापरम्, पूर्वापरे, अधरोत्तरम् अधरोत्तरे, पशुविकल्पेनैव सिद्धेऽश्ववडवग्रहणं तत्पर्यायनिवृत्त्यर्थम्, हयवडवे । स्वैरित्येव अजाश्ववडवाः न्यायादेव विकल्पे सिद्धे पूर्वापरादिग्रहणं पदान्तरनिवृत्त्यर्थम् - 11 तेन पूर्वपश्चिम, दक्षिणापरौ, अधरमध्यमौ उत्तरदक्षिणावित्यत्र विकल्पो न भवति ।। १३१ ।। 10 न्या० स०-- अश्ववडव० । अजाश्ववडवा इति अत्रेतरेतर एव अन्यथा अश्ववडवेत्यस्य पशुद्वारो विकल्पः सिद्ध एवातो व्यावृत्त्यर्थं ग्रहणम् । न्यायादेवति समाहारेतरेतरलक्षणात् ।। ३. १. १३१ । 20 - पशुव्यञ्जनानाम् ॥ ३. १. १३२ ।। पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व एक एकार्थो वा भवति । गौश्च महिषश्च गोमहिषम् गोमहिषी, अश्वबलीवर्दम् अश्वबलीवर्दी, वृष्णिस्तभम् वृष्णिस्तभौ, महाजोरभ्रम् महाजोरभ्रौ, व्यञ्जन - दधिघृतम्, दधिघृते, शाकसूपम्, शाकसूपौ । अश्व महिषमित्यत्र तु परत्वात् 'नित्यवैरस्य' 25 [ ३. १. १४१. ] इति नित्यमेकत्वविधिः । स्वैरित्येव ? गोनरौ, दधिवारिणी, दध्युष्ट्रौ ।। १३२ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy