SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ६७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४८५ प्रपञ्चार्थम् । प्राधान्यं च द्रव्यशब्दानामिति नीलादि अन्याश्रितत्वादप्रधानमुत्पलं तु तस्याश्रयत्वात् प्रधानं । उत्पलं हि द्रव्यरूपत्वात् क्रियासिद्धये साक्षादुपयुज्यमानं प्राधान्येन विवक्ष्यते, नीलस्तु गुणत्वात् द्रव्यव्यवधानेन क्रियायामुपयोगादुत्पलस्य विशेषणं संपद्यते इति । ननु प्राधान्यं च द्रव्यशब्दानामित्युक्तमुत्पलादयस्तु जातिशब्दास्तत्कथमित्याहयद्यपीति । यस्तु गुणादीति आदिशब्दात् द्रव्यक्रिययोर्ग्रहः, क्रिया पाचक इत्यादिका 5 दर्शितैव, द्रव्यं यथा दण्डी चासौ धन्वी चात्राऽपि पूर्वनिपाते कामचारः । पदयोरप्रधानत्वादिति द्रव्यव्यवधानेन क्रियायामुपयोगात् । पूर्वोत्तरेति रविपरिवर्तनसंयोगेन दिश उच्यन्ते अतोऽत्रापि गुणः प्रवृत्तिनिमित्तम् । पूर्वदक्षिणा विदिगिति विदिगित्युपलक्षणं तत्संबन्धिन्यन्यत्राऽपि देशादौ भवति । सारङ्गो वर्णसमूहः, अर्जुनः कार्तवीर्य इति कृतं वीर्य येन तस्यापत्यमिति 'ऋषिवृष्णि' 10 [६. १. ६१.] इत्यण । कृष्णसर्प इत्यादिषु चतुर्यु उदाहरणेषु गुणवचनत्वात् कस्य पूर्वनिपातः ? इत्याह-भूयोवयवाभिधायिन इत्यादि । जातिशब्दानामिति यद्येवं कथं कृष्णसर्पशब्दयोः समानाधिकरण्यं द्वयोरेव तयोर्जातिविशेषवाचकत्वादित्याशङ्का चकारस्तत्पुरुषेति अत्र अनुवर्तते या तत्पुरुषसंज्ञा तया अस्याः कर्मधारयसंज्ञायाः समावेशो यथा स्यादित्येवमर्थश्चकारः। समावेशार्थ इति । यदि च चकारस्तत्पुरुष इत्यस्यानुकर्षणार्थ15 इत्युच्येत तदा चानुकृष्टं नोत्तरत्र इति विज्ञायेत ।। ३. १. ६६ ।। पूर्वकालेकसर्वजरत्पुराणनवकेवलम् ॥ ३. १.६७ ॥ पूर्वकाल इत्यर्थनिर्देशः पूर्वः कालो यस्यार्थस्य स पूर्वकालः, तद्वाचि नामैकादीनि चैकार्थानि परेण नाम्ना सह समस्यन्ते, तत्पुरुषः कर्मधारयश्च समासो भवति, पूर्वकालः संबन्धिशब्दत्वादपरकालेन । पूर्वं स्नातः20 पश्चादनुलिप्तः-स्नातानुलिप्तः, एवं लिप्तवासितः, कृष्टमतीकृता भूमिः, छिन्नप्ररूढो वृक्षः, एकशब्द: संख्यान्यसहायाद्वितीयेषु वर्तते,-एका शाटीएकशाटी, शाटशब्देन त्वनभिधानान्न भवति-एकः शाटः, एकर्षयः, एकचौरः, एकधनुर्धरः, सर्वशब्दो द्रव्यावयवप्रकारगुणानां कात्स्न्यें वर्तते-सर्वशैलाः, सर्वरात्रः, सर्वान्नम्, । सर्वशुक्लः, जरत्-जरद्गवः, जरद्राजः, जरद्वलिनः,25 पुराण-पुराणवैयाकरणः, नव-नवोदकम्, नवोक्तिः, केवल-केवलमसहायं ज्ञानं-केवलज्ञानम्, केवलजरत्, .- केवलपुराणम् । एकार्थमित्येव ? स्नात्वानुलिप्तः,-स्नात्वेत्यसत्त्ववाचिनो नानुलिप्तपदेनैकार्थ्यम् । पूर्वेणैव सिद्धे पुनर्वचनं स्पः परमिति पूर्वनिपातस्य विषयप्रदर्शनार्थम् पूर्वापरकालवाचि
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy