________________
४८६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० १८.]
नोरद्रव्यशब्दत्वादनियमे प्राप्ते पूर्वकालवाचिन एव पूर्वनिपातनार्थं च ।। ६७ ।।
न्या० स०-पूर्वकालेक०। पूर्वकालेत्यस्य कृतद्वद्व रेकादिभिदः, यदि 'पुनरेकादिभिरकृतद्वद्व : पूर्वकालेत्यस्य द्वंद्व: क्रियेत तदैकशब्दस्य स्वराद्यदन्तत्वात् पूर्वनिपातः स्यात्तथा च सर्वेषामेकरूपतायां स्वरूपग्रहणे पूर्वकालेत्यर्थनिर्देश इति यद् वक्ष्यते तदुपपन्न 5 न स्यात् । मतीकृतेति मतमस्या अस्तीति मतिनी क्षेत्रभूमिः, अमतिनी मतिनी कृतेति च्वौ प्रवद्धावे दीर्घत्वे च मतीकृता, अथवा मतं लोष्टमईनकाष्ठं तदस्या अस्ति अभ्रादि-. त्वादप्रत्ययः, ततोऽमता मता कृतेति, अद्रव्यशब्दत्वादिति शेषः, एतच्चोपलक्षणमेकादीनामपि, यदा क्रियाशब्देन वा सामानाधिकरण्यं तदा पूर्वेण समासे खचकुण्टादिवत् पूर्वनिपातस्यानियमः स्यादुभयोरपि पूर्वोत्तरपदयोविशेषणत्वादिति, केवलं न चेति कृते 10 अकेवलमेव भवति, यतोऽयं योगो 'विशेषणं विशेष्येण' [३. १. ६६.] इति प्राप्तौ तत्समासश्च सर्वत्र विशेषणम्' [ ३. १. ६६.] इति सूत्रस्य बाधकः, अतो नत्रा सह सर्वोऽपि कर्मधारयो न भवति ।। ३. १.६७ ।।
दिगधिकं संज्ञातद्धितोत्तरपदे ॥ ३. १. ६८ ॥
दिग्वाचि अधिकमित्येतच्च नामैकार्थं परेण नाम्ना सह समस्यते,15 संज्ञायां तद्धिते च प्रत्यये विषयभूते उत्तरपदे च परतः स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । दक्षिणा: कोशला:-दक्षिणकोशलाः, उत्तरकोशलाः, दक्षिणपञ्चालाः, उत्तरपञ्चालाः,-एवंनामानो जनपदाः, पूर्वेषुकामशमी, अपरेषुकामशमी, पूर्वकृष्णमृत्तिकाः, अपरकृष्णमृत्तिकाः,एवंनामानो ग्रामाः, संज्ञायां नित्यसमासः, नहि वाक्येन संज्ञा गम्यते,20 पूर्वोत्तरविभागप्रदर्शनार्थं तु विग्रहवाक्यम्, तद्धिते-दक्षिणस्यां शालायां भवःदाक्षिणशालः, एवमौत्तरशालः, पौर्वशाल:, आपरशालः, अधिकं खल्वपिअधिकया षष्ट्या क्रीतः-अधिकां षष्टि भूतो भावी वा अधिकषाष्टिकः, एवमधिकसाप्ततिकः,-अयमपि नित्यः समासः, न हि तद्धिते वाक्यमस्ति, उत्तरपदे, दक्षिणो गौर्धनमस्य दक्षिणगवधनः, एवमुत्तरगवधनः, पूर्वगवीप्रियः,25 अपरगवीप्रियः, अधिकगवप्रियः, अधिकगवीप्रियः,-एषु तत्पुरुषलक्षण: समासान्तः, उत्तरपदेऽपि नित्यसमासः, त्रयाणामेकार्थीभाव एवोत्तरपदसंभवात्-तत्र च द्वयोर्व्यपेक्षाभावात् । संज्ञादिग्रहणं किम् ? उत्तरा वृक्षाः ।