SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ४८४ ] : बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ६६.] MANO अप्रधानस्यैव प्रधानेन समासः । प्राधान्यं च द्रव्यशब्दानां द्रव्यस्यैव साक्षात्क्रियाभिसंबन्धात्, यद्यपि चोत्पलादिशब्दा जातिशब्दास्तथापि उत्पत्तेः प्रभृत्याविनाशाद्रव्येण जातेरभिसंबन्धाद्रव्यशब्दा उच्यन्ते, गुणक्रिययोस्तु तथा द्रव्येण संबन्धाभावान्न तन्निमित्ताः शब्दा द्रव्यशब्दा इति नीलोत्पलमित्याद्येव भवति, न तूत्पलनीलादीति । यस्तु गुणादिशब्दानामेव समासस्तत्रोभयोरपि । पदयोरप्रधानत्वात्कामचारेण पूर्वापरनिपात:-खजश्वासौ कुण्टश्व खञ्जकुण्टः, एवं कुण्टखञ्जः, शुक्लकृष्णः, कृष्णशुक्लः, एवं रोहितपाण्डुः २, हरितबभ्र : २, पूर्वा चासावुत्तरा च पूर्वोत्तरा, एवमुत्तरपूर्वा, दक्षिणपूर्वा, पूर्वदक्षिणा-विदिक्,. पाचकपाठक, पाठकपाचकः-पुरुषः, कृष्णसारङ्गः, कृष्णशबलः, कृष्णकल्माषः इत्यादौ तु गुणशब्दत्वेऽपि सारङ्गादिशब्दानां समुदायवाचित्वात्प्राधान्यम्10 कृष्णादिशब्दानां त्ववयववाचित्वेनाप्राधान्यम् इति कृष्णादीनामेव पूर्वनिपातः । एकार्थमिति किम् ? वृद्धस्योक्षा वृद्धोक्षा। कर्मधारये तु समासान्तः स्यात्बहुलाधिकारात्क्वचित्समासो न भवति-रामो जामदग्न्यः, अर्जुनः कार्तवीर्यः, दीर्घश्चारायणः, क्वचिन्नित्यः-कृष्णसर्पः, लोहितशालिः, गौरखरः, लोहिताहिः; : नरसिंहः, पुरुषमृगः, करिमकरः, बकटिट्टिभः, नकुलसर्पः, पक्षिमार्जारः,15 कुक्कुटसर्पः,-जातिविशेषवाचित्वान्नित्यसमासा एते। न हि वाक्येन जातिर्गम्यते, जातिशब्दानां चावयवद्वारेण समुदायेऽपि वृत्तेः सामानाधिकरण्यम्, भूयोऽवयवाभिधायिनश्च प्राधान्याद्विशेष्यत्वमितरस्य तु विशेषणत्वम् । चकारस्तत्पुरुषकर्मधारयसंज्ञा समावेशार्थः । कर्मधारयप्रदेशाः 'कडारादयः कर्मधारये' [३. १. १५८.] इत्यादयः ।। ६६ ।। 20 न्या० स०--विशेषणं । वृत्तिरेकार्थ्यमिति एकः साधारणोऽर्थों द्रव्यलक्षणस्तदतदात्मको यस्य तदेकार्थं तस्य भावः। तक्षकः सर्प इति । सर्प इति विशेष्यं तक्षक इति विशेषणम्, व्यतिक्रमेण तु तक्षको विशेष्यमेव, न ह्यस्य सर्पो विशेषणं घटतेऽसंभवात् । लोहितस्तक्षक इति लोहित इति विशेष्यं तक्षको विशेषणं व्यत्ययेन तु तक्षको विशेष्यमेव लोहित इति विशेषणं न भवति तस्य रक्तत्वाव्यभिचारात् । शिशपा वा भवतीति न च25 वाक्येऽपि, तहि वृक्षादिप्रयोगो न स्यादिति वाच्यं, द्वौ द्विरदावितिवद्गतार्थस्याऽपि लोके प्रयोगदर्शनात्, यद्वा पूर्व वृक्षप्रयोगात् सामान्यावगतेविशेषावगमाय शिशपेति प्रयुज्यते । एवं च तक्षकाहिरिति यतस्तक्षकशेषशब्दावहिगुणादावपि वर्त्तते । तक्षकः सर्प इत्यादौ तु तद्गुणविवक्षायामपि बाहुलकान्न भवति, विशेषणविशेष्यद्वयोपादानं हि बाहुलक
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy