________________
[पा० १. सू०८६-६१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४७६
पृथिवीप्रणतः, अन्तेगुरुः, मध्येगुरुः, 'ऋणेऽधम'-अधमर्णः, 'ऋणे उत्तमः'उत्तमर्णः, राजदन्तादित्वात्परनिपात इत्यादि सिद्धं भवति ।। ८८ ।
न्या० स०-सप्तमी०। व्यालेति व्याङ पूर्वादडतेरचि लत्वे च । प्रायसेति आयस्यतीत्यचि अलस इत्यर्थः । व्यानेति अनितेर्घत्रि आनस्ततो विवृद्ध प्रानो बलमस्य आसक्त इत्यर्थः । सवीरणेति सह वीण इव दक्षिण इत्यर्थः, इह गौण इति 5 परमार्थतो मद्यप: शौण्ड इत्युच्यते व्यसनी तु गौणवृत्त्या, आपतनं भावे घत्रि आपाते प्रारम्भे रमणीय आपातरमणीयः ॥ ३. १. ८८ ।।
सिंहाथै पूजायाम् ॥ ३. १. ८६ ॥
सप्तम्यन्तं नाम सिंहाद्यैर्नामभिः सह समस्यते, पूजायां गम्यमानायाम्, तत्पुरुषश्च समासो भवति । समरे सिंह इव-समरसिंहः । एवं रणव्याघ्रः,10 भूमिवासवः, कलियुधिष्ठिरः, उपमयात्र पूजावगम्यते बहुवचनमाकृतिगणार्थम् ।। ८६ ॥
काकायैः क्षेपे ॥ ३. १. ६० ॥ . सप्तम्यन्तं नाम काकाद्यैर्नामभिः सह समस्यते, क्षेपे गम्यमाने, तत्पुरुषश्च समासो भवति। तीर्थे काक इव तीर्थकाकः, एवं तीर्थध्वाङ्कः,15 तीर्थवायसः, तीर्थबकः, तीर्थश्वा, तीर्थसारमेयः, तीर्थकुक्कुटः, तीर्थशृगालः,अनवस्थित एवमुच्यते, उपमया चात्र क्षेपो गम्यते । क्षेप इति किम् ? तीर्थे काकस्तिष्ठति, वहुवचनमाकृतिगणार्थम् ।। ६० ।।
न्या० स०--काका। तीर्थसारमेय इति सारो मेयोऽस्य यद्वा सरमा शुनी तस्या अपत्यं 'चतुष्पाद्य एयञ्' [ ६. १. ८३. ] कुकुर इत्यर्थः। अनवस्थित इति20 यथा काकादिस्तीर्थफलमजानन् अचिरस्थायी भवत्येवं यो देवदत्तादिः कार्याण्यारभ्य तेष्वनिर्वाहकः स तीर्थाधारेण काकादिनोपमीयमानः क्षिप्यत इत्यस्ति क्षेपस्य गम्यमानतेत्याह-अनवस्थितेत्यादि । ३. १. ६० ।।
पात्रसमितेत्यादयः ॥ ३. १. ६१ ॥
पात्रेसमितादयः सप्तमीतत्पुरुषा निपात्यन्ते, क्षेपे गम्यमाने । पात्र एव 25