________________
४८० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ६१.]
समिताः, पात्रेसमिताः, एवं पात्रबहलाः, गेहेशूरः, गेहेदाही, गेहेक्ष्वेडो, गेहेनर्दी, गेहेनर्ती । गेहमेव विजितमनेन गेहेविजिती,-'इष्टादेः' [७. १. १६८.] इतीनि 'व्याप्येक्त नः' [२. २.६६.] इति सप्तमी, एवं गेहेविचितो, गेहेव्यालः, गेहेपटुः, गेहेपण्डितः, गेहेप्रगल्भः, गोष्ठेशूरः, गोष्ठेक्ष्वेडी, गोष्ठेनर्दी, गोष्ठेविजिती, गोष्ठेव्यालः, गोष्ठेपटुः, गोष्ठेपण्डितः, गोष्ठेप्रगल्भः,-एषु अवधारणेन क्षेपो 5 गम्यते। उदुम्बरे मशक इव उदुम्बरमशकः, एवमुदुम्बरकृमिः, कूपकच्छपः, कूपमण्डूकः, अवटकच्छपः, अवटमण्डूकः, उदपानमण्डूकः, अल्पदृश्व वमुच्यते, नगरकाकः, नगरवायसः, नगरश्वा, एतैः सदृशो धृष्ट . उच्यते, उदुम्बरमशकादिषूपमया क्षेपो गम्यते । गेहेमेही, पिण्डीशूरः,-य आवश्यकार्थमपि बहिर्न निर्गच्छति, भोजन एव च संरभते स एवमुच्यते,10 अत्रावधारणेन निरुत्साहता तया च क्षेपो गम्यते। पितरिशूरः, मातरिपुरुषः,-यः सदाचारं भिनत्ति स एवमुच्यते,-अत्र प्रतिषिद्धासेवनेन क्षेपो गम्यते ।
गर्भधीरः, गर्भशूरः, गर्भेसुहितः, गर्भेतृप्तः, गर्भेदप्तः, योऽलीकाभिमा- . नित्वादनुचितचेष्टः स एवमुच्यते,-तत एव च क्षेपो गम्यते । कर्णेटिरिटिरिः,15 कर्णेचुरुचुरः, कर्णेटिरिटिरा, कर्णेचुरुचुरा,-चापलेनानुचितचेष्टोच्यते,टिरिटिरीति गत्यनुकरणम्, चुरुचुर्विति वाक्यानुकरणम्। तत् करोति रिणजन्तादप्रत्ययो निपातनसामर्थ्याच्चानो न भवति । इतिशब्दः समासान्तरनिवृत्त्यर्थः-तेन परमाः पात्रेसमिताः, पात्रेसमितानां पुत्रः इत्यादिषु समासो न भवति । निपातनात् सप्तम्या अलुप्, बहुवचनम् प्राकृतिगणार्थम्,20 तेन-वणकृमिः, गृहसर्पः, गृहकलविङ्कः, आखनिकबकः इत्यादयो गृह्यन्ते ।। ६१ ।।
न्या० स०--पात्रेस०। गेहेश्वेडीति त्रिविदाङ् इति धातौ क्ष्विदः स्थाने विडं केचित् पठन्ति, गेहे एव क्ष्वेडते 'ग्रहादिभ्यो रिणन्' [५. १. ५३. ] एवमग्रेतनद्वये। गेहमेव विजितमनेनेति 'व्याप्ये क्तनः' [२. २. ६६.] इत्यनेन क्तप्रत्ययान्तात् यस्तद्धित 25 इन् तदन्तस्य व्याप्ये वर्तमानात् सप्तमी विहितेति प्रथमान्तेन विग्रहः, यद्वा अर्थकथनमिदं गेहेविजीतीत्येव क्रियते। गेहेविचितीति-गेहमेव विचितं गवेषितमनेन, यथादृष्टं