SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ४७८ ] [ पा० १ सू० ८८. ] शौक्ल्यादिशब्दैर्द्धर्म्ममात्रमेवाभिधीयते । सुरभिरिति सुष्ठु रभते 'पदिपठि' ६०७ ( उणादि ) इति इ प्रत्यय:, आगमस्यानित्यत्वात् 'रभोऽपरोक्षा' [ ४. ४. १०२. ] इति न । अर्थात् प्रकररणाद् वेति ननु शुक्लादिर्वर्णादिविशेषणम्, पटस्य शुक्लो वर्ण इति ततश्च पटादेर्वर्णादिना संबन्धो न तु शुक्लादिविशेषणेनेति पष्ठ्यन्तस्य समासप्राप्तिरेव नास्तीत्याशङ्का । प्रस्वास्थ्यमस्त्येवेति गुणग्रहणेन ये गुरणा द्रव्यस्य विशेषणं भवन्ति, 5 शुक्लः पट इत्यादौ ये च भूतपूर्व्वगत्या ट्यरणाद्यन्ताः शौक्ल्यादयस्तेऽपि गृह्यन्ते, यतः शुक्ल शौक्ल्यमिति, एवं मधुरमाधुर्यादीनामपि । ननु अनेनैव व्याख्यामेन पटस्य शुक्ल इत्यादिष्वेव निषेधः प्राप्तः यतो यथा शुक्लः पट इत्यादी द्रव्येऽपि वृत्तिस्तथा न शौक्ल्यशब्दस्य द्रव्ये वृत्तिर्यतः शौक्ल्यशब्देन गुरणमात्रमेवाभिधीयते न द्रव्यम् ? उच्यते, यद्यपि शौक्ल्यशब्दो द्रव्ये न वर्त्तते तथापि शौक्ल्यशब्दो गुरणवचनः, ततो यद्यप्ययं द्रव्यं वक्तु 10 न शक्नोति तथापि श्रात्मीयशुक्ललक्षणेन शब्देन यदि वादयति तर्हि भवत्येव, ग्रात्मीयत्वं चानयोर्गुणमात्रवृत्तित्वात्, यथा कश्चित् पुमान् भार्यायाः पार्श्वात् पित्रोर्भक्ति कारयति ततो यद्यात्मना न करोति तथापि भक्ति कुर्व्वन्नभिधीयते एवमत्राऽपि भविष्यति । तद्विशेषरेवायमिति तद्विशेषाश्व शुक्लादयो मधुरादयः सुरभ्यसुरभी शीतादयश्च गुरणा गृह्यन्ते, तेषामेव द्रव्य विशेषणत्वसंभवात् तेन रूपादीनां न ग्रहः, न हि ते द्रव्यस्य विशेषणं भवन्ति 15 पटो रूपं, गुडो रसः, चन्दनं गन्धः स्तनस्पर्शः इति । रूपादिविशेषा ये शुक्लादयस्त एव गृह्यन्ते तेन गौरवादयः संख्यादयो वैशेषिकप्रसिद्धाश्च न गृह्यन्ते । वाङ्माधुर्यमिति रसनेन्द्रियग्राह्य एव रसो लोके मधुरशब्दस्य रूढोऽत्र तूपचारादिति न गुडस्य माधुर्यमितिवन्निषेधः, यतो गौरण मुख्यन्यायेन मुख्यो लौकिको गुणः समासाभावं प्रयोजयतीति । बहुलाधिकारादिति ननु कण्टकस्य तैक्ष्ण्यमित्यादौ तैक्ष्ण्यं स्पर्शनेन चक्षुषाऽपि च गृह्यते, ततो 20. द्वीन्द्रियग्राह्याणां न गुणत्वं किं त्वेकेन्द्रियग्राह्यारणामेवेति वैशेषिकमतम्, ततः समासः प्राप्तः, कुसुमसौरभ्यमित्यादौ च पटस्य शौक्ल्यमितिवत् समासाभावप्रसङ्गस्तदेतदुभयं कथमित्याशङ्का ॥। ३. १८७ ।। बृहद्वृत्ति - लघुन्याससंवलिते सप्तमी शौण्डाद्यैः ॥ ३. १. ८८ ॥ सप्तम्यन्तं नाम शौण्डाद्यैर्नामभिः सह समस्यते, तत्पुरुषश्च समासो25 भवति । पाने प्रसक्तः शौण्ड : - पानशौण्डः, पानशौण्डो मद्यपः, प्रक्षेषु प्रसक्त:शौण्ड इव प्रक्षशौण्डः, शौण्डशब्द इह गौणो व्यसनिनि वर्तते, वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः, अक्षधूर्तः । अक्षकितवः । शौण्ड धूर्त, कितव, व्याल, सव्य, आयस, व्यान, सवीरण, अन्तर, अधीन, पटु, पण्डित कुशल, चपल, निपुण, सिद्ध, शुष्क, पक्व बन्ध, बहुवचनमाकृतिगरणार्थम् 130 तेन शिरः शेखरः, हस्तकटकः, प्रापात रमणीयः, अवसानविरसः, पृथिवीविदितः,
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy