________________
[ पा० १ सू० ८४-८५.]
पतिपर्यायस्तेन संबन्धषष्ठ्या याजकादिपाठात् कर्मषष्ठ्या वाऽयं समासः, क्रियाशब्दस्य तु तत्राग्रहणादनेन प्रतिषेधः भुवो भर्ता, वज्रस्य भर्ता ।। ८३ ।।
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४७५
न्या० स० -- कर्म्मजा० । तच्चाकस्येति तृचोऽव्यभिचारात् 'अकस्याऽपि ' ग्रहः तृच् सन्निहितस्य । गुरणीत्यत्र शिखादित्वादिन् । क्रियाशब्दस्य त्विति बिभर्तीति 5 भरणक्रियामात्रमुपादाय वर्त्तमानस्येत्यर्थः, पतिपर्यायभर्तृशब्द प्रौणादिकोऽव्युत्पन्नोऽप्यस्ति ।। ३ १ ८३ ।।
तृतीयायाम् ॥। ३. १. ८४ ॥
कर्तरि या तृतीया तस्यां सत्यां कर्मजा षष्ठी न समस्यते । आश्चर्यो गवां दोहोऽगोपालकेन, साध्विदं शब्दानामनुशासनमाचार्येण । तृतीयायामिति 10 किम् ? साध्विदं शब्दानुशासनमाचार्यस्य, साध्वी कटचिकीर्षा चैत्रस्य, कर्तरि षष्ठ्यामपि न समास इति कश्चित् - विचित्रा सूत्रस्य कृतिराचार्यस्य । कर्तरीत्येव ? साध्विदं शब्दानुशासनमाचार्यस्य नः पुण्येन । कर्मजेत्येव ? मैत्रस्य संबन्धी कृतो मैत्रकृतवत्रेण । कथं गोदोहो गोपालकेन ? संबन्धषष्ठ्या भविष्यति ।। ८४ ।।
15
न्या० स० - - तृतीयायाम् । मैत्रस्य संबन्धी कृत इत्यत्र श्रोदनोऽन्यो वाऽर्थ - प्रकररणादिना निज्ञतिः ।। ३. १. ८४ ।।
तृप्तार्थपूरणाव्ययातृश्शश्रानशा ॥ ३. १. ८५ ।।
तृप्तार्थैः पूरणप्रत्ययान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्च नामभिः षष्ठ्यन्तं नाम न समस्यते । तृप्तार्था: - फलानां तृप्तः, फलानां सुहितः, 20 सक्तूनां पूर्णः, ओदनस्याशितः, पयसो घ्राणः । पूरण - तीर्थकराणां षोडशः, चक्रधराणां पञ्चमः शान्तिः, चक्रधराणां द्वितीयः सगरः, वासुदेवानां तृतीयः स्वयंभूः । अव्यय-राज्ञः साक्षात्, ग्रामस्य पुरस्तात्, चैत्रस्य कृत्वा, मैत्रस्य प्रकृत्य, अव्ययीभावस्याप्यन्वर्थाश्रयणात्क्वचिदव्ययत्वम् - तेन चैत्रस्योपकुम्भमित्यत्र समासो न भवतीति केचित् । अश्- रामस्य द्विषन्, रावरणस्य द्विषन् 125