SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ४७४ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ८२-८३.] क्रीडायामाजीवे च गम्यमाने तत्पुरुषश्च समासो भवति । उद्दालकपुष्पभञ्जिका, वारणपुष्पप्रचायिका, शालभजिका,-कस्याश्चित् क्रीडायाः संज्ञा । आजीवे, दन्तलेखकः, नखलेखकः, अवस्करसूदकः, रमणीयकारकः, दन्तलेखनादिरस्याजीवो गम्यते । क्रीडाजीवौ वाक्येन न गम्येते इति नित्यसमासा एते। क्रीडाजीव इति किम् ? अोदनस्य भोजकः, पयसः पायकः, 'कर्मजा 5 तृचा च' [३. १. ८३.] इति प्रतिषेधे प्राप्ते वचनम् ।। ८१ ।। न्या० स०--अकेन। 'कर्मजा तृचा च' [ ३. १. ८३. ] इत्यस्यापवादस्ततश्च भनक्तीति भञ्जिका उद्दालकपुष्पाणां भञ्जिकेति कृते 'कृति' [ ३. १.७७. ] इति । प्राप्नोति, तत उत्तरेण निषेधस्तदाऽस्य सूत्रस्य फलं, यदा तु उद्दालकपुष्पाणि भज्यन्ते यस्यां क्रीडायामिति विग्रहस्तदा निषेधाभावे 'कृति' [ ३. १. ७७. ] इत्यनेनैव सिद्ध-10 त्वादस्य न किञ्चित् फलम् । ननु भनक्तीति भञ्जिकेति कर्तरि कथं साधयन्ति यत उहालकपुष्पभञ्जिकेति क्रीडानाम ततस्तस्याः क्रीडाया भङ्ग कर्तत्वं न संगच्छते अपि तु क्रीडाकारिणाम्, उच्यते । अस्यां क्रीडायां भजनक्रियाकरणादुपचारात् सापि की भण्यते, शालशब्दोऽपि तालव्याद्यो वृक्षवाचकोऽस्ति ।। ३. १. ८१ ।। न कर्तरि ॥ ३. १. ८२ ॥ 15 कर्तरि विहिता या षष्ठी तदन्तं नामाकप्रत्ययान्तेन नाम्ना न समस्यते। . भवतः शायिका, भवत आशिका, भवतोऽग्रगामिका कर्तरीति किम् ? इक्षु- 1. भक्षिकां मे धारयसि, पयःपायिकां मे धारयसि ।। ८२ ।। न्या० स०-न कर्तरि०। अग्रगामिकेति कृत् सगतिकारकस्येति न्यायादग्रगामिकेति अस्यापि कृदन्तत्वम् ।। ३. १. ८२ ॥ कर्मजा तुचा च ॥ ३. १. ८३ ॥ कर्तरीत्यनुवर्तते तच्चाकस्य विशेषणम्, कर्मणि विहिता षष्ठी कर्मजा, तदन्तं नाम कर्तरि विहितो योऽकप्रत्ययस्तदन्तेन तृजन्तेन च नाम्ना सह न समस्यते । अोदनस्य भोजकः, सक्तूनां पायकः, अपां स्रष्टा, पुरां भेत्ता। कर्मजेति किम् ? संबन्धषष्ठयाः प्रतिषेधो माभूत्, गुणो गुणिविशेषक:-25 गुणिनः संवन्धी विशेषक इत्यर्थः कर्तरीत्येव ? इक्षुभक्षिकां मे धारयसि, पयःपायिकां मे धारयसि । कथं भूभर्ता ? वज्रभतेति,-भर्तृ शब्दो यः
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy