SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ७९-८१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४७३ 10 उद्वर्तक वर्तक होतृ भर्तृ । प्राकृतिगणोऽयम्-तेन तुल्यार्था अपि-गुरुसदृशः, गुरुसमः, दास्याःसदृशः, वृषल्याःसमः 'षष्ठयाः क्षेपे' [३. २. ३०.] इत्यलुप् । तथा-अन्यत्कारकम्, विश्वगोप्ता, तीर्थकर्ता, तत्प्रयोजको हेतुश्च, जनिकर्तुः प्रकृतिः, इत्यादि सिद्धं भवति । 'कर्मजा तृचा च' [३. १. ८३.] इति प्रतिषेधापवादो योगः, तुल्यार्थैः विध्यर्थश्च ।। ७८ ।। न्या० स०--याजका०। याजकेति याजक: ऋत्विक् । भत्रिति भतृ शब्दस्य पतिवाचकस्यैवात्र पाठः, क्रतीत्यनेनैव सिद्धे किमर्थोऽयं योगः ? इत्याह कमजा तचा चेतीति । विध्यर्थश्चेति तुल्यार्थे रिति या षष्ठी सा शैषिका न भवतीति अप्राप्तौ ।। ३. १. ७८ ।। पतिरथौ गणकेन ॥ ३. १. ७६ ॥ पत्तिरथशब्दौ षष्ठयन्तौ गणकेन नाम्ना समस्येते, तत्पुरुषश्च समासो भवति । पत्तीनां गणक:-पत्तिगणकः, एवं रथगणकः । पत्तिरथाविति किम् ? कार्षापणानां गणक: । गणकेनेति किम् ? रथस्य दर्शकः, कथं ज्योतिगणकः ? 'अकेन क्रीडाजीवे' [३. १. ८१.] इति भविष्यति । 'कर्मजा तृचा च' [३. १. ८३.] इत्यस्यापवादोऽयम् ।। ७६ ।। सर्वपश्चादादयः ॥ ३. १.८० ॥ सर्वपश्चादित्यादयः षष्ठीतत्पुरुषाः साधवो भवन्ति । सर्वेषां पश्चात् सर्वपश्चात्पदं वर्तते, सर्वचिरं जीवति, तदुपरिष्टात् रुक्मं निदधाति इत्यादि,अव्ययेन प्रतिषेधं वक्ष्यति तस्यापवादोऽयम् । बहुवचनं शिष्टप्रयोगानुसरणार्थम् ।। ८० ।। 20 न्या० स०--सर्वप० । सर्वेषां पश्चादिति यदा संबन्धे षष्ठी तदा निषेधे प्राप्ते समासः, यदा तु रिरिष्टेति तदा अप्राप्ते समासः । प्रतिषेधं वक्ष्यतीति यदा संबन्धे षष्ठी तदा इत्यर्थः, तत्र संबन्धषष्ठीग्रहणात्, उपलक्षणमिदं तेन यदा रिरिष्टेति षष्ठी तदाऽप्राप्ते समासः ।। ३. १. ८० ।। अकेन क्रीडाजीवे ॥ ३ १.८१ ॥ आजीवो जीविका, षष्ठ्यन्तं नामाकप्रत्ययान्तेन नाम्ना समस्यते, 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy