SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ४७२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ७७-७८.]] संबन्धे त्वनेनैव । गोस्वामी, पृथिवीश्वरः, विद्यादायाद इत्यादिषु त्वयत्नजा शेष एव षष्ठी। 'स्वामीश्वरा'-[२. २. ६८.] दिसूत्रस्य नित्यं षष्ठीप्राप्तौ पक्षे सप्तमीविधानार्थत्वात् । संघस्य भद्र भूयात्, शासनस्य भद्र भूयादित्यादौ त्वाशिषि षष्ठयाः समासो न भवति, असामर्थ्यात् अनभिधानाद्वा। नहि संघभद्र भूयादित्युक्त संघस्य भद्र भूयादित्यर्थः 5 प्रतीयते, अपि तु संघभद्र नाम संघसंबन्धितया प्रसिद्धं किंचिद्भद्र कस्य । चिद्भूयादिति ।। ७६ ।। न्या० स०-षष्ठ्यय०। प्रयत्नान चेदिति तुल्यार्थयोगे यत्नजाया अपि षष्ठ्याः समासो भवति, तुल्यार्थानां याजकादिदृष्टेः। गमकत्वादिति अवश्यसापेक्षत्वादित्यर्थः । मनुष्याणामित्यादिषु त्रिषु योगेष्वपादानपञ्चमीप्रसक्तौ 'सप्तमी चाऽविभागे' 10 [ २. २. १०६.] इति षष्ठी। असामर्थ्यादिति तत्त्वं भूयादिति सापेक्षत्वात् । अनभिधानेति अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्तीति न्यायात् विवक्षितार्थाप्रतिपादनात् ॥ ३. १.७६ ।। कति ॥ ३. १. ७७॥ 'कर्मणि कृतः' [२. २. ८३.] 'कर्तरि' [२. २. ८६.] इति च या15 कृति कृत्प्रत्ययनिमित्ता षष्ठी विहिता तदन्तं नाम नाम्ना समस्यते, तत्पुरुषश्च . समासो भवति । सिद्धसेनकृतिः, गणधरोक्तिः, इध्मव्रश्चनः, पलाशशातनः, धर्मानुस्मरणम्, तत्त्वानुचिन्तनम्, सर्पिनिम्, एधोदकोपस्करणम्, चौरोज्जासनम् ।। ७७ ।। न्या० स०--कृति। चौरोज्जासन मिति 'कर्मणि कृतः' [ २. २. ८३. ]20 'कर्त्तरि' [२. २. ८६.] वाऽस्या विधानात् यत्नजाया अपि षष्ठ्याः समासः ॥ ३. १. ७७ ।।। याजकादिभिः ॥ ३. १. ७८ ॥ षष्ठयन्तं नाम याजक इत्येवमादिभिर्नामभिः सह समस्यते, तत्पुरुषश्च समासो भवति । ब्राह्मणानां याजक:-ब्राह्मणयाजकः, एवं गुरुपूजकः, याजक,25 पूजक, परिचारक, परिवेषक, स्नापक, अध्यापक, आच्छादक, उन्मादक,
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy