________________
[पा० १. सू० ७४-७६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४७१
क्तेनासत्त्वे ॥ ३. १. ७४ ॥
1
असत्वे वर्तमाना या पञ्चमी तदन्तं नाम क्तप्रत्ययान्तेन नाम्ना सह समस्यते, तत्पुरुषश्च समासो भवति । स्तोकान्मुक्तः, अल्पान्मुक्तः, कृच्छ्रान्मुक्तः, कतिपयान्मुक्तः, दूरादागतः विप्रकृष्टादागतः श्रन्तिकादागतः अभ्याशादागतः, कृच्छ्राल्लब्धम्, 'असत्वे ङसे : ' [ ३. २. १०. ] इत्यलुप् । क्तेनेति किम् ? s स्तोकान्मोक्षः । असत्वे इति किम् ? स्तोकात् वद्धितः - स्तोकाद्द्रव्यादित्यर्थः, एवमल्पात् प्रवृद्धम् समासे तद्धिताद्युत्पत्तिः फलम् - स्तोकान्मुक्तिः इत्यादि ।। ७४ ।।
पर शतादि ॥ ३. १. ७५ ॥
परःशतादिः पञ्चमीतत्पुरुषः साधुर्भवति । शतात्परे - परः शताः, 10 सहस्रात्परे - परः सहस्राः, लक्षाल्लक्षाया वा परे परोलक्षाः - परशब्दस्य पूर्वनिपातः सकारागमश्च निपातनात् । परशब्देन समानार्थः परस्शब्दः सकारान्तोऽप्यस्तीत्यन्ये ।। ७५ ।।
षष्ठययत्नाच्छेषे ॥। ३. १. ७६ ॥
शेषे या षष्ठी तदन्तं नाम नाम्ना सह समस्यते, तत्पुरुषश्च समासो15 भवति । प्रयत्नात् - न चेत् स शेषो 'नाथ : ' [ २. २. १० . ] इत्यादेर्यत्नाद्भवति । राज्ञः पुरुषः - राजपुरुषः, यतिकम्बलः, राज्ञो गोक्षीरं राजगोक्षीरम्, राजगवीक्षीरम् । ऋद्धस्य राज्ञः पुरुषः, जिनभद्रगणेः क्षमाश्रमरणस्य भाष्यमित्यादौ सापेक्षत्वान्न भवति । कथं देवदत्तस्य गुरुकुलम् ? जिनदत्तस्य दासभार्येति, सापेक्षत्वेऽपि गमकत्वाद्भवति । प्रयत्नादिति किम् ? सर्पिषो20 नाथितम्, मातुःस्मृतम्, सर्पिषो दयितम्, मातुरीशितम्, एधोदकस्योपस्कृतम्, चौरस्य रुग्णम्, चौरस्योज्जासितम्, शतस्य द्यूतम्, शतस्य द्यूतश्चैत्रः, कटकरणस्यायुक्तः शेष इति किम् ? सर्पिषो ज्ञानम्, रुदतः प्रव्रजित, मनुष्याणां क्षत्रियः शूरतमः, गवां कृष्णा संपन्नक्षीरतमा, अध्वगानां रथगामी शीघ्रतमः । कथं सर्पिर्ज्ञानम् ? मातृस्मरणमित्यादि, कृद्योगेऽत्र षष्ठीत्युत्तरेण भविष्यति, 25