SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ४७६ ] बृहत्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ८६.] शतृ-चैत्रस्य पचन्, अध्वगानां धावन्तः शीघ्रतमाः, चैत्रस्य पक्ष्यन् । अानश्चैत्रस्य पचमानः, चैत्रस्य पक्ष्यमाणः, सर्वत्र संबन्धे षष्ठी । एतैरिति किम् ? ब्राह्मणस्य कर्तव्यं ब्राह्मणकर्तव्यम् । इभत्रश्चनः, पलाशशातनः राज्ञः पाटलिपुत्रकस्य धनम्, शुकस्य माराविदस्य शब्दः, सपिषः पीयमानस्य गन्धः, सूत्रस्याधीयमानस्यार्थ इत्यादौ सामानाधिकरण्ये धनादिपदापेक्षा षष्ठीत्यसा- 5 मर्थ्यात्समासो न भवति, विशेषणसमासस्तु निरपेक्षत्वेन सामर्थ्याद्भवत्येव, पाटलिपुत्रकश्चासौ राजा च तस्य पाटलिपुत्रकराजस्येत्यादि । षष्ठीसमासे तु अनियमेन पूर्वनिपातः स्यात् ।। ८५ ।। न्या० स०-तृप्तार्थ । तृप्तोऽर्थोऽभिधेयो येषां, पूरणेत्यत्र अभेदोपचारात् पूरणप्रत्यया गृह्यन्ते। सति तृप्तसुहितयोः 'ज्ञानेच्छा' [५. २. ६२. ] इति क्तः पूणे कर्मणि 10 क्तः। आशिते शील्यादित्वात् क्तः घ्राणे 'गत्यर्था' [ ३. ४. ११. ] इति क्तः । ग्रामस्य पुरस्तादिति अव्युत्पन्नमव्ययं व्युत्पत्तौ तु 'रिरिष्ट' [ २. २. ८२. ] इति षष्ठ्या विधानात् समासो न प्राप्नोत्येव । अध्वगानामिति अत्राऽपि संबन्धे षष्ठी न निर्धारणे तस्य सतोऽप्यविवक्षा। माराविदस्येति मारमावेत्ति मारवित् तस्याऽपत्यं 'ङसोऽपत्ये' [६. १. २८.] अण् । सर्वत्र संबन्धे षष्ठीति कर्मजषष्ठ्यपि न समस्यते, चैत्रस्य कर्मत्व-15 भृतो द्विषन् । अनियमेन पूर्वनिपातः स्यादिति 'षष्ठ्ययत्न' [ ३. १. ७६. ] इत्यत्र । विशेषणविशेष्ययोर्द्व योरपि प्रथमोक्तत्वात् विशेषणसमासे तु प्रधानानुयायिनो व्यवहारा इति न प्राग्निपातः । पाटलिपुत्रकस्येति चतुर्दा उदाहरणेषु यथासंख्यं धनं गृहं गन्धः अर्थश्च ज्ञेयानि ।। ३. १. ८५ ।। ज्ञामेच्छार्थािधारक्तेन ॥ ३. १. ८६ ॥ 20 ज्ञानार्थादिन्छार्थादर्चार्थाच्च वर्तमानो यः क्तो यश्च 'अद्यर्थाच्चाधारे' [५. १. १२.] इत्याधारे विहितस्तदन्तेन नाम्ना षष्ठयन्तं नाम न समस्यते । राज्ञां ज्ञातः, राज्ञां बुद्धः, राज्ञामिष्टः, राज्ञां मतः, राज्ञाचितः, राज्ञां पूजितः, इदमेतेषां यातम्, इदमेषां यातम्, इदमेषामासितम्, इदमेषां भुक्तम्, इदमेषां पीतम् । कथं राजपूजितः राजमहितः, राजसंमतः, कलहंसराममहितः ? 25. कृतवान् इति बहुलाधिकारात् इष्टेन भूतकालक्त न तृतीयासमासा एत इति केचित् । अन्ये तु कृद्योगजाया एव षष्ठया इह समासप्रतिषेध इति संबन्ध षष्ठीसमासा एत इत्याहुः ।। ८६ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy