________________
४६४ ]
बृहद्वृत्ति-लघुन्याससंवलिते.
[पा० १. सू० ५६-६०.]
न्या० स०--स्वयं सामी०। धौत इत्यत्र करणे कर्मकर्तरि वा क्तः, यतः करणशक्त: कर्तृशक्तर्वा वाचक: स्वयंशब्दः । आत्मनेत्यर्थ इति अत्र करणे कर्तरि वा तृतीया । सामिकृतमित्यत्र 'विशेषणं विशेष्येण' [ ३. १. ६६. ] इत्यनेन कर्मधारयेरणव सिध्यति, परं यदृच्छया पूर्वापरभावः स्यात् तद्बाधनार्थमिहोपादीयते ।। ३.१.५८ ॥
दिद्वतीया खट्वा क्षेपे ॥ ३. १. ५६ ॥
खट्वा इत्येतनाम द्वितीयान्तं क्षेपे गम्यमाने क्तान्तेन नाम्ना सह समस्यते, तत्पुरुषश्च समासो भवति । क्षेपः समासार्थो न वाक्येन गम्यते इति नित्य एवायं समासः । खट्वारूढः, खट्वाप्लुतो जाल्मः-उत्पथप्रस्थित एवमुच्यते । खट्वा, पल्यङ्क, प्राचार्यासनं वा, अधीत्य गुरुभिरनुज्ञातेन हि:0 खट्वारोढव्या, यत्त्वन्यथा खट्वारोहणं तदुत्पथप्रस्थानम्, उपलक्षणं चेह खट्वारोहणमुत्पथप्रस्थानस्य, तेन सर्वोऽपि विमार्गप्रस्थितः खट्वारूढ इत्युच्यते । क्षेप इति किम् ? खट्वामारूढ उपाध्यायोऽध्यापयति ।। ५६ ।।
न्या० स०--द्वितीया खटवा०। क्षेपः समासार्थ इति तत्रैव तस्य प्रसिद्धः । नित्य एवेति यत्तु खट्वामारूढ इति वाक्यं तत्पूर्वोत्तरपदविभागमात्र15 दर्शनार्थम् ।। ३. १. ५६ ।।
कालः ॥ ३. १. ६०॥
कालवाचि नाम द्वितीयान्तं नाम्ना सह समस्यते, तत्पुरुषश्च समासो भवति । रात्रिमतिसृता:-रात्र्यतिसृताः, एवं रात्र्यारूढाः, रात्रिसंक्रान्ताः, अहरतिसृताः-षड् मुहूर्ताश्चराचरा:-ते हि दक्षिणायने रात्रिं गच्छन्ति,20 उत्तरायणे त्वहरिति, मासं प्रमितो मासप्रमितः, प्रतिपच्चन्द्रमाः-मासं प्रमातुमारब्ध इत्यर्थः । अव्याप्त्यर्थ प्रारम्भः ।। ६० ।।
न्या० स०--कालः। कालयति भूतानि अच् । अव्याप्त्यर्थ इति । क्त नेति निवृत्तमिति पृथग्योगादिति शेषः । सर्वरात्रकल्याणोति यद्यपि सर्वशब्दो न कालवत्तिस्तथाप्यत्तरपदप्रधानत्वेन समासस्य सर्वरात्र इति समूदायोऽपि कालः। मासं25 पूरक इति पूरयिष्यतीति 'क्रियायां क्रिया' [ ५. ३. १३.] इति एकचि णके तु 'कर्मणि कृतः' [ २. २.८३. ] इति षष्ठी स्यात् णकचि तु 'तृन्नुदन्त' [२. २. ६०. ] इति निषेधान्न ।। ३. १.६०॥