________________
[पा० १. सू० ६१-६३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४६५
व्याप्तौ
॥ ३. १. ६१ ॥
व्याप्तिर्गुणक्रियाद्रव्यरत्यन्तसंयोगः, व्याप्तौ या द्वितीया तदन्तं कालवाचि नाम व्यापकवाचिनाम्ना सह समस्यते, तत्पुरुषश्च समासो भवति, क्त नेति निवृत्तम् । मुहूर्त सुखं-मुहूर्तसुखम्, मुहूर्तरमणीयः, सर्वरात्रकल्याणो, सर्वरात्रशोभना, मुहूर्ताध्ययनम्, मुहूर्तगुडः। व्याप्ताविति किम् ? मासं 5 पूरको व्रजति । काल इत्येव ? कोशं कुटिला नदी ।। ६१ ।।
श्रितादिभिः ॥ ३. १. ६२ ॥
' द्वितीयान्तं नाम श्रितादिभिर्नामभिः समस्यते, तत्पुरुषश्च समासो भवति । धर्म श्रित:-धर्मश्रितः, श्रीश्रितः, संसारातीतः, नरकपतितः, निर्वाणगतः। श्रित, अतीत, पतित, गत, अत्यस्त, प्राप्त, पापन्न, गमिन्,10 गामिन्, आगामिन् इति श्रितादयः । बहुवचनमाकृतिगणार्थम्, तेन प्रोदन- । बुभुक्षुः, हिताशंसुः, तत्त्वबुभुत्सुः, सुखेच्छुः इत्यादि सिद्धम् ।। ६२ ।।
. न्या० स०--श्रितादिभिः । धर्म श्रित इति प्राप्त्यर्थत्वात् 'गत्यर्थाकर्मक' [ ५. १. ११. ] इति क्तः प्राप्त इत्यर्थः, यद्यपि बहुव्रीहिणव धर्मश्रित इत्यादीनि सिध्यन्ति, तथापि यत्तत्पुरुषं शास्ति तत् ज्ञापयति यत्र समासेऽर्थे विग्रहभेदात्तत्पुरुषबहुव्रीही15 प्राप्नुतस्तत्र तत्पुरुष एव, तेन राजसख इत्यादौ न बहुव्रीहिः, किं च बहुव्रीही कच् स्यात् । संसारातीत इत्यत्र अत्येति स्म उल्लङ्घते स्म 'गतिक्वन्य' [ ३. १. ४२. ] इति समासः, अतिक्रमार्थातिवर्ज इत्यनेन नोपसर्ग इति न वाच्यं, यदर्थं क्रिया तस्मिन्निष्पन्ने क्रियाप्रवृत्तिरतिक्रमः, यथाऽतिसिक्त पुष्पफलादौ निष्पन्नेऽपि पुनः सेकक्रियाप्रवृत्तेः । निर्वाणगत इति क्त निर्वाति सुखीभवत्यत्र त्यनटि वा, प्राप्ता जीविका ययेत्यादि20 बहुव्रीहिणाऽपि सिध्यति । प्राप्तगवीत्यादौ तु समासान्तो न स्यादिति वचनम् । स्त्रोलिङ्गार्थमिति स्त्र्येकार्थोत्तरपदा भावात् 'परतः स्त्री' [३. २. ४६.] इति पुभावो न प्राप्नोतीत्यत्करणम् ।। ३. १. ६२ ॥
प्राप्तापत्रौ तयाच्च ॥ ३. १. ६३ ॥
प्राप्तापन्नौ सामर्थ्यात् प्रथमान्तौ तथा द्वितीयान्तेन नाम्ना सह समस्येते,25 तत्पुरुषश्च समासो भवति तत्संनियोगे चानयोरन्तस्याकारो भवति । प्राप्ता