________________
[पा० १. सू० ५८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[
४६३
.
-
-
द्वयहजात: यहजातः ? समाहारद्विगोर्जातन काल इत्यंशेन समासेन भविष्यति । इह च यद्यपि विग्रहे जातादि कालस्य विशेषणम् तथापि शब्दशक्तिस्वाभाव्यात् समासो जातादिप्रधानस्तेन समासे लिङ्ग संख्या च तदीयतदीयमेव भवति । काल इति किम् ? द्रोणो धान्यस्य, काल इति चैकवचनं द्विगोः अन्यत्र प्रयोजकम-तेन मासौ मासा वा जातस्येत्यत्र न 5 भवति । द्विगौ तु द्वौ त्रयो वा मासा जातस्य द्विमासजातः त्रिमास जात इत्यपि भवति, द्विगुग्रहणं त्रिपदसमासार्थम् । अन्यथा नाम नाम्नेत्यनुवृत्तेढ योरेव स्यात् । चकारो द्विगुरहितकालपरिग्रहार्थः । मेयैरिति किम् ? मासश्च त्रस्य । जातादेरेव हि मेयत्वम् जन्मादेः प्रभृति जातादिसंबन्धित्वेनैवादित्यगतेः परिच्छेदात, न द्रव्यमात्रस्य, क्तान्तेनैव च मेयेन प्रायेणाय। समास इष्यते-तेन मासो गच्छतः, वर्षमधीयानस्य, मासो गन्तु वर्तते इत्यादौ न भवति, अयमपि षष्ठीसमासापवादो योगः ।। ५७ ।।
न्या० स०--कालो द्वि। अंशांशिनिवत्ताविति कालमेयरित्यभिनवार्थग्रहणात्, जातोत्तरपदानि मासजात इत्यादीनि बहुव्रीहावपि सिध्यन्ति। परं मासो मृतस्य मासमृत इत्यत्राऽन्यपदार्थाऽसंभवात् द्विगौ च यह्नसुप्त इत्यादाविति वचनम् । शब्द 15 शक्तिस्वाभाव्यादिति अन्यथा मासो जाताया इति स्त्रीत्वविवक्षायां मासजाता इत्यत्र ह्रस्वत्वं स्यात्, पूर्वपदप्राधान्याच्च पश्चादाप् न स्यात् । द्वे अहनी सुप्तस्येति द्व इति चाहनी, इति च नामद्वयं सुप्तस्येति नाम्ना समस्यते । ततस्त्रिपदे समासे जाते सुप्त इत्यत्तरपदे परे 'सख्या समाहारे च' [३.१ ६६. ] इति द्विगसंज्ञायां द्विगविषये दुरुत्तरपदनिमित्त द्विगौ भाविनि त्रयाणां तत्पुरुषः । अन्यत्र प्रयोजकमिति अन्यत्र चरितार्थ-20 मित्यर्थः, द्विगौ तु द्विवचनाद्यन्तमपि समस्यते इति भावः । मासश्चैत्रस्येति अत्र न मासश्चैत्रस्य परिच्छेदकत्वेन संबन्धी किं तूत्सवास्पदत्वेनाऽन्येन वा प्रकारेणेति ।। ३. १. ५७ ।।
स्वयंसामी क्तेन ॥ ३. १. ५८ ॥
स्वयं सामि इत्येते अव्यये क्तान्तेन नाम्ना सह समस्येते, तत्पुरुषश्च समासो भवति । स्वयंधौतौ पादौ, स्वयंविलोनमाज्यम्-आत्मनेत्यर्थः,25 सामिकृतम्, सामिभुक्तम्, अर्धमित्यर्थः । समासे सत्यैकपद्यादेकविभक्तिस्तद्धिताद्युत्पत्तिश्च भवति । स्वायंधौतिः, सामिकृतिः, सामिकृतायनि: इत्यादि । क्त नेति किम् ? स्वयं कृत्वा, सामि भुक्त्वा ।। ५८ ।।