________________
[पा० १. सू० ४६-५०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४५७
श्वः श्रेयसम् । श्वोवसीयसमिति वसुशब्दान्मतो ईयसि 'विन्मतो:' [७. ४. ३२. ] इति मत्लोपे शोभनं वसीयः 'श्वसो वसीयसः' [७. ३. १२१.], अत् ।। ३. १. ४८ ।।
स्युक्तं कृता ॥३. १. ४६ ॥
कृत्प्रत्ययविधायके सूत्रे ङसिना पञ्चम्यन्तेन नाम्नोक्त ङस्युक्तम् । तत् कृदन्तेन नाम्ना नित्यं समस्यते, स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । कुम्भं 5 करोति कुम्भकारः, शरलावः, अग्निचित्, सोमसुत् अन्यथाकारं भुङ्क्त, अतिथिवेदं भोजयति, इह च गतिकारकङस्युक्तानां विभक्त्यन्तानामेव कृदन्तैविभक्त्युत्पत्तेः प्रागेव समास इष्यते-तेन प्रस् स्थ इत्यादौ, चर्मन् टा क्रीत, अभ्र टा विलिप्त इत्यादौ, कच्छ अम् प इत्यादौ च समासे च सति अकारान्तत्वात् ङी: सिद्धः-प्रष्ठी, चर्मक्रीती, अभ्रविलिप्ती, कच्छपी इत्यादि 110 यदि पुनर्विभक्त्यन्तैः कृदन्तैः समासः स्यात् तदान्तरङ्गत्वाद्विभक्त : प्रागेव आपः प्राप्तावकारान्तत्वाभावात् ङीन स्यात् । तथा-माषान् वापिन् व्रीहीन् वापिन् इत्यादौ समासे नकारस्यानन्तत्वाण्णत्वं सिद्धम्-माषवापिणी, व्रीहिवापिणी । विभक्त्यन्तेन तु समासेऽन्तरङ्गत्वाद्विभक्तः प्रागेव डीप्राप्तौ नकारस्यान्त्यत्वाण्णत्वं न स्यात् । पूर्वपदस्य च विभक्त्यन्तत्वनियमात्15 चर्मक्रीतीत्यादिषु पदकार्य नकारलोपादि सिद्धं भवति । ङस्युक्तमिति किम् ? कारकस्य व्रज्या, कारकस्य गतिः, अलं कृत्वा, खलु कृत्वा । कृतेति किम् ? धर्मो वो रक्षतु ।। ४६ ।।
न्या० स०--ङस्युक्तं । कृदन्तेनेति प्रत्यासत्या तत्सूत्रविहितनैव । प्रापः प्राप्ताविति प्राप् किल स्त्रीत्वमानिमित्तः, स्यादिस्तु कश्चित् संख्यानिमित्तः कश्चित्20 कर्मादिनिमित्तः । कारकस्येति 'क्रियायां क्रियार्था' [ ५. ३. १३. ] इति स म्युक्तत्वाण्णकच अभाणि ङस्युक्त यदि न भण्यते तदा व्रज्याकारकगतिकारको इति स्याताम् ।। ३. १. ४६ ॥
तुतीयोक्तं वा ॥ ३. १. ५० ॥
'दंशेस्तृतीयया' [५. ४. ७३.] इत्यारभ्य यत्तृतीयोक्त नाम तत् कृता25 नाम्ना, वा समस्यते, स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । मूलकेनोपदंशं, मूलकोपदंशं भुङ्क्ते, दण्डेनोपघातं, दण्डोपघातं गाः कलयति, पार्श्वयोः