SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४५८ ] बृहद्दवृत्ति - लघुन्याससंवलिते [ पा० १. सू० ५१.] पार्श्वभ्यां वोपपीडं, पार्श्वोपपीडं शेते । वाशब्दो नित्यसमासनिवृत्त्यर्थः तेनोत्तरेषु वाक्यमपि भवति ।। ५० ।। न्या० स० - तृतीयोक्तं ० । वाशब्द इति इह पृथग्योगादेव नित्यत्वस्य निवृत्तिर्वा - शब्दस्तु नित्यसमासाधिकार निवृत्त्यर्थ इति । ३. १. ५० ।। नञ् ॥ ३.१.५१ ।। अवतन प्र नजित्येतन्नाम नाम्ना समस्यते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । न गौः अगौः, अनुच्चैः, प्रसः निवर्त्यमानतद्भावश्चोत्तरपदार्थः पर्युदासे” | नञ्समासार्थ::- स चायं चतुर्धा - तत्सदृश:, तद्विरुद्ध:, तदन्यः, तदभाव इति । अब्राह्मणः, अशुक्ल इति तत्सदृशः - क्षत्रियादिः पीतादिश्च प्रतीयते, अधर्मः, असित इति तद्विरोधी - पाप्मा कृष्णश्च प्रतीयते, अनग्निः अवायुरित्यग्नि- 10 वायुभ्यामन्यः प्रतीयते, प्रवचनम् प्रवीक्षरणमिति वचनवीक्षरणाभावः प्रतीयते । नन्वस्योत्तरपदार्थ प्राधान्येन तल्लिङ्गसंख्यत्वे सति कथं 'भवन्त्यने के जलधेरिवोर्मयः' इत्यादी अनेके इति बहुवचनम् - प्रसाधव एवेदृशाः शब्दाः । प्रसह्यप्रतिषेधे तु नञ् पदान्तरेण संबध्यत इति उत्तरपदं वाक्यवत् स्वार्थ एव वर्तते तत्रासामर्थ्येऽपि यथाभिधानं बहुलकात् समासः - सूर्यमपि न पश्यन्ति 15 सूर्यं पश्या राजदाराः, पुनर्न गीयन्ते पुनर्गेयाः श्लोकाः, श्राद्धं न भुङ्क्त अश्राद्धभोजी, अलवरण- भोजी भिक्षु, तथा कर्णवेष्टकाभ्यां न शोभते सर्वथा भिन्न क्रिया के साथ नमका समास) कार्णवेष्टकिकं मुखम्,- 'शोभमाने' [६. ४. १०२. ] इतीकरण, वत्सेभ्यो न हितोऽवत्सीयो गोधुक् - 'तस्मै हित:' [७ १ ३५.] इतीय:, वधं नार्हत्यवध्यो ब्राह्मणः, 'दण्डादेर्यः' [६.४. १७८. ] इति यः, संतापाय न शक्त असांतापिक: 20 सदुपदेशः, -' तस्मै योगादेः शक्ते' [६. ४. ६४.] इतीकरण । अन्य इत्येव ? न विद्यन्ते मक्षिका सोऽमक्षिकाकः, मक्षिकाणामभावोऽ यत्र मक्षिकमिति ।। ५१ ।। न्या० स० -- नञ् । ननु न इत्येव निरनुबन्ध: पठ्यतां किं सानुबन्धेन नञित्युपादानेन ? सत्यं चादिषु ञकारोपदेशं स्मारयितुं त्रकारो निद्दिश्यते प्रतिघ-शङ्का-25 व्युदासार्थं च नेत्युक्त हि समासस्य प्रतिषेधः सम्भाव्यते । अगौरिति नत्रा विशेषित आरोपितगवादिस्वरूपो गवयादिरित्यर्थः । निवर्त्त्यमानतद्भाव इति । घटादेः पटादिभावो
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy