________________
४५६ ]
बृहत्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ४८.]
सप्तम्यन्तेनापि-प्रतिष्ठितमुरसि प्रत्युरसम् । गताद्या इति किम् ? वृक्षं प्रति विद्योतते विद्युत्, साधुर्देवदत्तो मातरं प्रति । अन्य इत्येव । प्राचार्यको देशः । बहुवचनमाकृतिगणार्थम् ।। ४७ ।।
न्या० स०--प्रात्यवपरि०। गताद्यर्थेषु वर्तमाना इति अनेन प्रादीनां गम्यादिक्रियाविशिष्टसाधनेषु प्रवृत्तिर्वृत्तिविषये विज्ञायते, तत्रास्यास्मिन्नर्थे वृत्तिरिति विशेष- 5 निर्णयो लक्ष्यानुसारेण भवति, तत्राऽपि प्रयोगपर्यालोचनया विशिष्टार्थवृत्तित्वं प्रादीनां वाक्यैराचष्टे । प्रगत प्राचार्य इत्यत्र वाक्ये प्रादेोतकत्वं गम्यमानप्रादेशप्रगतार्थस्य वाचकत्वं प्रार्थत्वाद् गतस्य प्राचार्यो देश इति न भवति । प्रान्तेवासीति अन्ते वसतीत्येवं व्रती 'व्रताभीक्ष्ण्ये' [ ५. १. १५७. ] णिन् ‘शयवासिवासेषु' [ ३. २. २५. ] इत्यलुप् । अनुलोम इति 'प्रत्यन्वव' [ ७. ३. ८२. ] इति अत् समासान्तः, 'नोपदस्य'10 [७. ४. ६१.] इत्यन्त्यस्वरादिलोपः । अन्तरगुल इति 'संख्याव्ययादङ गुले' [७. ३. १२४. ] इति डः । प्रत्युरसमिति 'प्रत्युरसः' [ ७. ३. ८४. ] इत्यत् समासान्तः ।। ३. १. ४७॥
अव्ययं प्रवादिभिः ॥ ३. १. ४८ ॥
अव्ययं नाम प्रवृद्धादिभिर्नामभिनित्यं समस्यते, स च समासोऽन्य-15 स्तत्पुरुषसंज्ञो भवति । पुनःप्रवृद्धं बहिः, पुनरुत्स्यूतं वासः, पुननिष्क्रान्तो रथः, पुनरुक्त वचः, पुनर्नवं वयः, पुनःशृतं पयः, स्वर्यातः, अन्तर्भूतः, प्रातःसवनम्, उच्चै?षः, नीचैर्गतम्, अधस्पदम्, अनद्वापुरुषः, असशक्तः पुरुषः, प्रायश्चित्तम्, सद्यस्क्रीः, प्राग्वृत्तम्, पुराकल्पः,. श्वःश्रेयसम्, श्वोवसीयसम् इति । बहुवचनमाकृतिगणार्थम् ।। ४८ ।।
20 न्या० स०--अव्ययं प्र०। पुनः प्रवृद्धमिति कालवाचकात् पुनः शब्दात् 'कालाध्वभाव' [ २. २. २३. ] इति विकल्पेन द्वितीया सप्तमी वा सर्वत्र, पुनः प्रवर्द्ध ते स्मेति कार्य, न तु भूयः प्रवृद्धमिति तस्याप्यव्ययत्वादनेनैव नित्यसमासत्वात् समुदायस्येवाऽयं पर्यायो भवति, एवमुत्तरेष्वपि, श्राति श्रायति वा पयः स्वयमेव तद् श्रायद् वा चैत्रेण प्रयुज्यते स्म, तत: पुनः श्रप्यते स्म । अन्तर्भूत इत्यत्र अन्तःशब्देन 25 मध्यस्थोऽप्युच्यते तदा प्रथमा। अधस्पदमिति अधस्थाने पदमित्येव कार्य न त्वधस्तादिति तस्याप्यव्ययत्वात्, अनिर्णयोऽनद् वा तेन पुरुषः न विद्यते द्वा संशयोऽस्येति व्युत्पत्त्याद् वा धर्मी उच्यते, न अद्वा अनन् वा संशयितः पुरुषः ससंशयः पुरुषो वा अनन् वा पुरुषः। भ्रातुष्पुत्रकस्कादित्वात् सत्वे सद्यस्कोः। 'निसश्च श्रेयसः' [७. ३. १२२. ] इति