________________
[पा० १. सू० ४६-४७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४५५
आठल्पे ॥ ३. १. ४६ ॥
प्राङित्यव्ययमल्पेऽर्थे वर्तमानं नाम्ना नित्यं समस्यते, स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । ईषत्कडारः-आकडारः, एवमापिङ्गलः । आबद्धमायुक्तमित्यादौ तु क्रियायोगे गतिलक्षण एव समासः ।। ४६ ।।
प्रात्यवपरिनिरादयो गतंक्रान्तकष्टग्लानक्रान्ताद्यर्थाः ।
___प्रथमाद्यन्तैः ॥ ३. १. ४७ ॥ प्रादयः शब्दा गताद्यर्थेषु वर्तमानाः प्रथमान्तेन, अत्यादयः क्रान्ताद्यर्थेषु द्वितीयान्तेन, अवादयः क्रुष्टाद्यर्थेषु तृतीयान्तेन, पर्यादयो ग्लानाद्यर्थेषु चतुर्थ्यन्तेन निरादयः कान्ताद्यर्थेषु पञ्चम्यन्तेन, नाम्ना सह नित्यं समस्यन्ते, स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । प्रादयः प्रगत आचार्यः प्राचार्यः, एवं10 प्रान्तेवासी, प्रवृद्धो गुरुः प्रगुरुः, प्रकृष्टो वीरः प्रवीरः, संगतोऽर्थः समर्थः, विरुद्धः पक्षो विपक्षः, प्रत्यर्थी पक्षः प्रतिपक्षः, प्रतिबद्धं वचः प्रतिवचः, । उपश्लिष्टः पतिरुपपतिः, उपपन्नोऽनुकूलः प्रतिकूलो वा नायक:-उपनायकः, अनुनायकः, प्रतिनायकः, अत्यादयः-अतिक्रान्तः खट्वाम् अतिखट्वः, उद्गतो वेलाम् उद्वेलः, प्रतिगतोक्षं प्रत्यक्षः, अनुगतः प्रतिगतो वा लोमानि-अनुलोमः,15 प्रतिलोमः, अभिप्रपन्नो मुखमभिमुखः, अवादयः-अवक्रुष्ट: कोकिलया अवकोकिलः, परिणद्धो वीरुद्भिः परिवीरुत्, संनद्धो वणा संवर्मा, अनुगतमर्थेनान्वर्थं नाम, संगतमक्षेण समक्षम् वस्तु, वियुक्तमर्थेन व्यर्थं वचः, संगतमर्थन समर्थं पदम्, पर्यादयः-परिग्लानोऽध्ययनाय पर्यध्ययनः, उद्युक्तः संग्रामाय उत्संग्रामः, शक्तः कुमार्य अलंकुमारिः, शक्तः पुरुषेभ्यः अलंपुरुषीणः,20 अलंशब्दस्य चतुर्थ्यन्तेन वाक्यमपीच्छन्त्यन्ये,-प्रलं जीविकायै-अलंजीविकः, अलं कुमार्च-अलंकुमारिः, निरादयः-निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः, अपगतः शाखायाः अपशाखः, अन्तर्गतोऽङ्गुल्या अन्तरऽङ्गुलो नखः, उत्क्रान्ता कुलादुत्कुला कुलटा, एवमुद्वलः समुद्रः, उच्छास्त्रं वचः, उत्सूत्रो न्यायः, उच्छृङ्खलः कलभः, अपगतमादपार्थं वचः, एवमपक्रम कार्यम् । बहुलाधि-25 कारात् षष्ठ्यन्तेनापि-अन्तर्गतो गाय॑स्य अन्तर्गार्यः, एवमन्तरगुलो नखः,