SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४५४ ] बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० ४३-४५.] समस्यन्ते, स च समासोऽन्यो बहुव्रीह्यादिलक्षणरहितस्तत्पुरुषसंज्ञो भवति । ऊरीकृत्य, खाट्कृत्य, शुक्लीकृत्य, पटापटाकृत्य, प्रकृत्य, कारिकाकृत्य, कुकुत्सितो ब्राह्मणः कुब्राह्मणः, एवं कुपुरुषः, ईषदुष्णं कोष्णं, कवोष्णं, कदुष्णम्, एवं कामधुरम् । अव्ययमित्येव कुर्विशाला-पृथिवीत्यर्थः । अन्य इति किम् ? कुत्सिताः पुरुषा यस्य स कुपुरुषकः,-अत्र बहुव्रीहित्वात् कच् भवति । 5 तत्पुरुषप्रदेशाः ‘गोस्तत्पुरुषात्' [७. ३. १०५.] इत्यादयः ।। ४ ।। न्या० स०--गति क्वन्य० । कु इत्यव्ययमिति गतिसाहचर्यादव्ययमित्यधिकाराद् वा संभवव्यभिचारेति न्यायात् कू इत्यस्य विशेषणं न तु गतिसंज्ञानां तेषामव्यभिचारात् । . कुब्राह्मण इति नित्यसमासत्वात् कुत्सितो ब्राह्मण इत्यस्वपदविग्रहः ।। ३. १. ४२ ।। दुनिन्दाकृच्छ्रे ॥ ३. १. ४३ ॥ दुरित्यव्ययं नाम निन्दायां कृच्छ चार्थे वर्तमानं नाम्ना नित्यं समस्यते, स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । निन्दित पुरुषः दुष्पुरुषः, कृच्छण कृतं दुष्कृतम् । अन्य इत्येव ? निन्दिताः पुरुषा यस्य स दुष्पुरुषः,-अत्रापि. बहुव्रीहित्वात्कच् ।। ४३ ।। 10 20 सु पूजायाम् ।। ३. १. ४४ ॥ सु इत्यव्ययं पूजायां वर्तमानं नाम्ना नित्यं समस्यते, स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति। शोभनो राजा सुराजा। अन्य इत्येव ? मद्राणां समृद्धिः सुमद्रम्,-अत्राव्ययीभावत्वादम् ।। ४४ ।। न्या० स०--सु पूजायाम् । पूजाया अन्यत्रातिशयार्थेऽनुक्ताऽपि व्यावृत्तिद्रष्टव्या ।। ३. १. ४४ ।। अतिरतिक्रमे च ॥ ३. १. ४५ ॥ अतीत्यव्ययमतिक्रमे पूजायां च वर्तमानं नाम्ना नित्यं समस्यते, स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । प्रतिस्तुतं भवता, अतिसिक्त भवता,अतिक्रमेण स्तुतिसेको कृतावित्यर्थः, अतिस्तुत्य, अतिसिच्य, पूजायाम्-शोभनो राजा अतिराजा। बहुलाधिकारादतिक्रमे क्वचिन्न भवति-अति श्रुत्वा,25 अति सिक्त्वा ।। ४५ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy