________________
[पा० १. सू० ३५-३६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[
४७
आयामो लक्ष्यते, एवमनुयमुनं मथुरा। दैर्घ्य इति किम् ? वृक्षमनु विद्योतते विद्युत् । लक्षणेनेत्येव ? लक्ष्येण वाराणस्यादिना माभूत् ।। ३४ ।।
न्या० स०-दैर्येऽनुः। वृक्षमनुविद्योतत इति । अत्र वृक्षो विद्योतनस्य लक्षणन्वेन विवक्ष्यते न दैर्ध्यस्येति ।। ३. १. ३४ ।।
समीपे ॥३. १. ३५ ॥
अनु इत्येतनाम समीपेऽर्थे वर्तमानमर्थात् समीपिवाचिना सहैकार्थ्य सति पूर्वपदार्थेऽभिधेये समस्यते, स च समासोऽव्ययीभावसंज्ञः । अनु वनस्य अंनुवनमशनिर्गता, अनुनृपं पिशुनाः अनोरव्ययत्वात् 'विभक्तिसमीप'[३. १. ३६.] इत्यादिनैव समासे सिद्धे विकल्पार्थम्, तेन वाक्यमपि भवति।० पृथग्वचनं लक्षणेनेत्यस्य निवृत्त्यर्थम् ।। ३५ ।।
भ्या० स०-समीपे। समापशब्दोऽव्युत्पन्नः वर्णानुपूर्वीनिर्ज्ञानार्थं च संगता प्रापो यत्रेति । अनुवनमनिर्गतेति समासाच्चात्र गमनक्रियाकर्मभूतसामीप्याभिधायकात् अमोऽम्भावः, सप्तमी वा । निवृत्त्यर्थमिति पूर्वे तु अत्राऽपि लक्षणेनेत्यनुवर्त्तयन्ति, यदुत्पलः । अनुशब्द: समीपसमोपिनोर्लक्ष्यलक्षणसंबन्धद्योतकस्तथा हि वनसामीप्यगताया अशनेर्वनं। 5 लक्षणम् ॥ ३. १. ३५ ।।
तिष्ठदिगवत्यादयः ॥ ३. १.३६ ॥
तिष्ठद्गुप्रभृतयः समासशब्दा अव्ययीभावसंज्ञा भवन्ति, यथायोगमन्यपदार्थे पूर्वपदार्थे चाभिधेये। तिष्ठन्ति गावो यस्मिन् काले गर्भग्रहणाय दोहाय वाहाय वत्सेभ्यो निवासाय जलपानार्थं वा स कालस्तिष्ठद्गु, वहन्ति20 गावो यस्मिन् काले स कालो वहद्गु, आयन्ति गावो यस्मिन् स काल आयतीगवम्,-अत्र पूर्वपदस्य पुंवद्भावाभावः समासान्तश्च निपातनात् एतेऽन्यपदार्थे काले । तथा-खले यवा यस्मिन् स कालः खलेयवम्, खलेबुसम्, निपातनात्सप्तम्या अलुप् लूनयवम्, लूयमानयवम्, पूनयवम्, पूयमानयवम्, संहृतयवम्, संह्रियमाणयवम्, संहृतबुसम्, संह्रियमाणबुसम्,-एते प्रथमैक-25 वचनान्ता एवान्यपदार्थे काले। देशेऽपीत्यन्ये-तेन खलेयवं पश्य, खलेयवेन