SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ३६.] कृतम्, खलेयवे कृतम् इत्यादयः प्रयोगा प्रसाधवः, द्वितीयादिविभक्त्यन्ता अपि एते साधव इत्यन्ये । नाभेरधः अधोनाभम् निपातनादत् समासान्तः, पूर्वपदार्थप्रधानोऽयम् । तथा - समत्वं भूमेः समभूमि, - एवं समपदाति, पक्षे पूर्वपदस्य मान्तत्वमपि निपात्यते - समभूमि, समंपदाति । भावेष्वन्यपदार्थेष्वित्यन्ये, उत्तरपदार्थप्राधान्ये तु समा समपदातिरिति कर्मधारय एव । शोभना समा यंत्र सुषमम्, एवं उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव । एतौ देशकाल - भूमिः समभूमि 5 तथा - शोभनत्वं समस्य शोभनत्वं समाया: विषमम् निष्षमं, दुष्षमम्, अपरसमम् । शोभना समा सुषमा । शोभने समे समशब्देनाव्ययीभाव इत्यन्ये, तथा - समाया आयतीत्वम् प्रायती समा यत्र यती समेति वा प्रायतीसमम्, एवं पापसमम्, पुण्यसमम्, समशब्देन 10 तृतीयासमास इत्यन्ये । आयत्या समम् - आयतीसमम् । एवं पापसमम्, पुण्यसमम्, तथा प्रकृष्टत्वं चाह्नः प्राह्णम् निपातनादह्नादेशः, एवं प्ररथम्, प्रमृगम्, प्रदक्षिणम् । कालभावलक्षणेऽन्यपदार्थेऽपीत्यन्ये, - प्रक्रान्तमहरस्मिन् सुष ४४८ ] बृहद्वृत्ति - लघुन्याससंवलिते प्राह ्मणम्, प्रगता रथा अस्मिन् प्ररथम्, प्रनष्टा मृगा अस्मिन् प्रमृगम्, प्रकृता दक्षिणा अस्मिन् प्रदक्षिणम्, अन्यत्र प्रगता मृगा अस्मात् प्रमृगो देशः, 15 देशेऽप्यन्ये । उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव, प्राह्णः, प्ररथः, प्रमृगः, प्रदक्षिणा । तथैकत्वमन्तस्य एकोऽन्त इति वा एकान्तम्, देशेऽन्यपदार्थेऽपीत्यन्ये । एवं प्रान्तं समपक्षम्, समानतीर्थम्, समानतीरम्, तथा - संप्रत्यसंप्रत्यप्रदक्षिणानि यथासंख्यं वर्तमानावर्तमानवामेषु । तथा - युद्धे इजन्तं च, केशाकेशि, tosrafs, द्विदण्ड, द्विमुसलि । 'तिष्ठद्गु' - इत्यत्रेतिशब्दः स्वरूपपरिग्रहार्थ : 120 तेनेह समासान्तरं न भवति - परमं तिष्ठद्गु तिष्ठद्गु प्रियमस्येति वाक्यमेव भवति । अत एव प्रदक्षिणसंप्रतिभ्यां सह नञ्समासेन सिद्धावप्रदक्षिणासंप्रत्योः पाठः । इजन्तस्य च तिष्ठद्ग्वादिपाठः 'इच् युद्धे' [७. ३. ७४.] इत्यनेने जन्तस्य समासान्तरप्रतिषेधार्थः, द्विदण्डयादेरव्ययीभावार्थश्च । अन्ये तु परपदेनैव समासं प्रतिषेधन्ति तन्मते - परमतिष्ठद्गु, प्रतिष्ठद्गु, जपन्25 सन्ध्यामित्यादयोऽपि साधवः । तिष्ठद्ग्वादिराकृतिगणः - तेन प्रसव्यम्, अपसव्यम्, यत्प्रभृति, तत्प्रभृति, इतः प्रभृति इत्यादि सिद्धम् ।। ३६ ॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy