________________
४४६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
पा० १. सू० ३३-३४.]
लक्षणेनाभिप्रत्याभिमुखये ॥ ३. १. ३३ ॥
लक्षणं चिह्नम्, तद्वाचिना नाम्ना आभिमुख्ये वर्तमानावभिप्रतीत्यैकार्थ्य सति पूर्वपदार्थेऽभिधेये समस्येतेऽव्ययीभावश्च समासो भवति । अभि अग्निम्अभ्यग्नि, प्रत्यग्नि-प्रत्यग्नि शलभाः पतन्ति, अग्नि लक्षीकृत्याभिमुखं . पतन्तीत्यर्थः । लक्षणेनेति किम् ? स्र ग्घ्नं प्रति गतः-प्रतिनिवृत्य पुन: 5 स्र ग्घ्नमेवाभिमुखं गत इत्यर्थः । अभिप्रतीति किम् ? येनाग्निस्तेन गतः । आभिमुख्य इति किम् ? वृक्षमभि विद्योतते विद्युत् । पूर्वपदार्थ इत्येव ? . अभिमुखोऽङ्को यासां ता अभ्यङ्का गावः ।। ३३ ।।
न्या० स०--लक्षरणेना० । अभिप्रपन्नो मुखमभिमुखस्तस्य भावः कर्म वा पतिराजान्त' [७. १. ७०.] इति ध्यण आभिमुख्यम् । प्रत्यग्नि मिति वैचित्र्यार्थं ससन्धि वाक्यम् ।10 अभ्यग्नोति अत्राग्निना शलभपातो लक्ष्यते इत्यग्निर्लक्षणं भवति, तस्य चाभिप्रतिभ्यामाभिमुख्यं प्रतिपाद्यते, अग्नौ हि शलभाः संमुखा एव पतन्ति, ननु लक्षीकृत्य इत्ययुक्त लक्षणीकृत्येति भणनीयं न लक्षीकृत्येति कोऽर्थः, अग्निं लक्षणत्वेन लक्ष्योकृत्येत्यर्थः । . कोऽर्थो दर्शनक्रियाऽपेक्षयाऽग्निर्लक्ष्यः पतनक्रियापेक्षया लक्षणं यतः पूर्वं पश्यन्ति ततः पतन्ति, अव्ययीभावात् क्रियाविशेषणत्वादुत्पन्नस्यामो लूप । न रघ्नं प्रति गत इति15. प्रतिगतस्य मध्ये प्रतिशब्दोऽर्थवानस्ति इति तेनाऽपि सह संबन्धोऽस्तीति समासः स्यात ।
पुनः स्त्र ग्नमिति अत्र प्रतिगतोऽयं देवदत्तः कोऽर्थः ? अभिमुखं गत इत्यर्थः, किं कृत्वा ? पुनरपि निवत्य इति, अत्र स्र ग्घ्नादन्यन्नगरान्तरं गन्तकामः पथि व्यामोहात्तमेव प्रत्यागत इति नास्ति गमनं प्रति स्र रघ्नस्य लक्षणता, यदुद्दिश्य हि गमनं क्रियते तल्लक्षणं भवति, अत्र तु व्यामोहादेवेत्थं गतः, गतक्रियापेक्षया च स रघ्नस्य कर्मत्वम् येनाऽग्निस्तेन20 गत इति येनतेनौ प्रत्यथौं, अग्निरित्युभयवाऽपि संबन्धनीयं येनाऽग्निर्गतस्तेनाऽग्निर्गत इत्युदाहरणद्वयं द्रष्टव्यं, गतो देवदत्तः किमत्र लक्षणं येनाऽग्निः अग्निर्लक्षणमित्यर्थ,: एवं तेनाऽग्निरिति भिन्न च यथा एकमेवेदमुदाहरणमित्यर्थः, गत इति लक्ष्यं तेनेति लक्ष्यस्य द्योतकमग्निर्लक्षणं येनेति लक्षणस्य द्योतकमिति लक्ष्यलक्षणभावः ।।३.१.३३ ।।
दैघ्येनुः ॥ ३. १. ३४ ॥
25 अनु इत्येतनाम दैर्घ्य आयामविषये यल्लक्षणं तद्वाचिना नाम्नैकार्थ्य सति पूर्वपदार्थेऽभिधेये समस्यते, स च समासोऽव्ययीभावसंज्ञः । अनु गङ्गा दीर्घा अनुगङ्ग वाराणसी, गङ्गाया लक्षणभूताया आयामेन वाराणस्या