________________
[ पा० १. सू० १५-१७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
नित्यं हस्ते पाणावु वाहे ॥ ३.१.१५ ॥
हस्ते पारणावित्येतौ सप्तम्येकवचनान्तप्रतिरूपकावव्ययौ, सप्तम्यन्तावनव्ययावित्येके, तावद्वाहे दारकर्मण्यर्थे गम्यमाने कृगो धातोः संबन्धिनौ गतिसंज्ञौ नित्यं भवतः, तस्माच्च धातोः प्राक् प्रयुज्येते । हस्तेकृत्य, पाणौकृत्य - भार्यां कृत्वेत्यर्थः । उद्वाह इति किम् ? हस्ते कृत्वा कार्षापणं 5 गतः । नित्यग्रहरणाद्वानिवृत्तिः ।। १५ ।।
[ ४२६
प्राध्वं बन्धे ॥। ३. १. १६ ॥
वर्तते
प्राध्वमित्येतन्मकारान्तमव्ययमानुकूल्ये तच्चानुकूल्यं यदा बन्धहेतुकं भवति, तदा बन्ध इत्युच्यते, अनेकार्थत्वाद्वा निपातानां मुख्य एवास्य बन्धोऽर्थः, तत्र वर्तमानः प्राध्वंशब्द: कृगो धातोः संबन्धी गतिसंज्ञो भवति, 10 तस्माच्च धातोः प्रागेव प्रयुज्यते । प्राध्वंकृत्य, बन्धनेनानुकूल्यं कृत्वेत्यर्थः । - बन्ध इति किम् ? प्राध्वं कृत्वा शकटं गतः ।। १६ ।।
न्या० स०-- प्राध्वं बन्धे । बन्धहेतुकमिति बन्धजनितमित्यर्थः, दुष्टाश्वादिह बन्धनेनानुकूल्ये व्यवस्थाप्यते । बन्ध इत्युच्यते इति कार्ये कारणोपचारात्, कारणं बन्धः, कार्यमानुकूल्यं बन्ध एवानुकूल्ये वर्तते ।। ३. १. १६ ।।
15
जीविकोपनिषदौपम्ये ॥। ३. १. १७ ॥
जीविकोपनिषच्छब्दौ औपम्ये गम्यमाने कृगो धातोः संबन्धिनौ गतिसंज्ञौ भवतः तस्माच्च धातोः प्रागेव प्रयुज्येते । जीविकाकृत्य, उपनिषत्कृत्य, जीविकामिवोपनिषदमिव कृत्वेत्यर्थः । औपम्य इति किम् ? जीविकां कृत्वा, उपनिषदं कृत्वा गतः ।। १७ ।।
20
इति
न्या० स० - जीविकोपनिषदौपम्ये जीवनं जीविका 'भावे' [ ५. ३. १२२. ] एक:, तत प्रपीत्वे च जीविका अथवा जीव्यतेऽनया इति 'नाम्नि पु ंसि च ' [५. ३. १२१.] इति के जीविका जीवनोपायः, औपम्य इत्यत्र उपमीयतेऽनयेति 'उपसर्गादात:' [ ५. ३. ११०. ] इति अङि भिदादित्वाद् वा उपमा, तस्या भाव श्रौपम्य, उपमानोपमेयभावलक्षण संबन्धः, समासकृत्तद्धितेषु संबन्धाभिधानमिति संबन्धे 25 भावप्रत्ययोत्पादात् ।। ३. १. १७ ।।