SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४३० ] बृहद्वृत्ति लघुन्याससंवलिते [पा० १. सू० १८.] नाम नाम्नैकायें समासो बहुलम् ॥ ३. १. १८ ॥ नाम नाम्ना सहकार्ये एकार्थीभावे सति समाससंज्ञं भवति बहुलम्, ऐकार्थ्यं च सामर्थ्य विशेषः । स च पृथगर्थानां पदानां क्वचित्परस्परव्यपेक्षालक्षणं सामर्थ्यमनुभूय भवति, यथा-राज्ञः पुरुषो राजपुरुषः, नीलं च तदुत्पलं नीलोत्पलम् । क्वचित् अननुभूयैव भवति, यथा-उपकुम्भम्, 5 कुम्भकारः, वाक्यान्तरेण त्वर्थः प्रदर्श्यते कुम्भस्य समीपं-कुम्भं करोतीति । क्वचिन्न भवत्येव, यथा छात्राणां पञ्चमः, रामो जामदग्न्यः इति लक्षणं चेदमधिकारश्च । तेन बहुव्रीह्यादिविशेषसंज्ञाभावे यत्रैकार्थता दृश्यते, तत्रानेनैव समाससंज्ञा भवति-विस्पष्टं पटुः, विस्पष्टपटुः, विचित्रं कटुकः; विचित्रकटुकः, एवं-विविक्तकषायः । व्यक्तलवरणः, संपन्नमधुरः, पटवम्लः,10 निपुणपण्डितः, कुशलदक्षः, चपलवत्सलः इत्यादिषु गुणविशेषणस्य गुणवचनेन समासः । काष्ठा परं,प्रकर्षमध्यायकः-काष्ठाध्यायकः । दारुणमध्यायकःदारुणाध्यायकः, अमातापुत्रमध्यायक:-अमातापुत्राध्यायकः, निष्ठुरमध्यायक : इत्यर्थः, वेशं सुभगमध्यायकः-वेशाध्यायकः। एवमनाज्ञाताध्यायकः, अयुताध्यायकः, अद्भताध्यायकः भृशाध्यायकः, घोराध्यायकः, परमाध्यायकः,15 स्वध्यायकः, अत्यध्यायकः इत्यादिषु क्रियाविशेषणस्य क्रियावता समासः । तथा-सर्वश्चर्मणा कृतः सर्वचर्मीणो रथः, अद्य श्वो वा विजायते अद्यश्वीनां गौः, दशभिरेकादश गृह्णाति दशैकादशिकः, ऊवं मुहूर्ताद्भवम्-ऊर्ध्वमौहूर्तिकम्, एवमौर्ध्वदेहिकम्, प्रौर्ध्वदमिकम् ; कृत: पूर्वं कटोऽनेन कृतपूर्वी कटम्, भुक्तपूर्वी प्रोदनम्, गतपूर्वी ग्राममित्यादिषु तद्धितार्थे समासः । तथा20 कन्येइव, दंपतीइव, वाससीइव, रोदसीइवेत्यादिष्विवेनालुप् समासः । एकपद्यं च समासफलम् । तथा-भूतः पूर्वं भूतपूर्वः, एवं दृष्टपूर्वः, श्रुतपूर्वः । सर्वेषु चैषु विशेषसंज्ञाप्राप्तौ अनेनैव समासः । बहुलमिति शिष्टप्रयोगानुसरणार्थम् नामेति किम ? चरन्ति गावो धनमस्य । नाम्नेति किम् ? चैत्रः पचति । बहुलवचनादेव क्वचिदनामापि समस्यते,-भात्यर्कोऽत्रेति भात्यर्क नभः, नभसा25 सामानाधिकरण्यं समासफलम् । क्वचिदनाम्नापि-अनुव्यचलत्, अनुप्रावर्षत्, यद् व्यकरोत्, यत् परियन्ति । अत्र नित्यसंध्यादिः समासफलम्, समासस्य च
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy