SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४२८ ] बृहद्वृत्तिलधुन्याससंवलिते [पा० १. सू० १४.] प्लुतिन्यायेन प्रादिरुपसर्ग इति वर्तते, न ऊर्यादिसूत्रेषु, तेन ऊर्यादीनां न उपसर्गसंज्ञा, ततश्च ऊरी स्यादित्यादौ 'प्रादुरुपसर्गा,' [२. ३. ५८] इति न षत्वम् । प्राक्त्वेऽप्यनियम इति न केवलं समास एवेत्यर्थः । नन्वधिपूर्वः करोतिविनियोगे वर्त्तते, तत्कथं स्वामित्वे गम्यमान इत्युच्यते ? सत्यं, विनियोगोऽपि चेत् स्वामित्वविषयो भवति ।। ३. १. १३ ।। साक्षादादिश्व्य र्थं ॥ ३. १. १४ ॥ साक्षादादयः शब्दाश्च्व्यर्थे वर्तमानाः कृगो धातोः संबन्धिनो गतिसंज्ञा वा भवन्ति, तस्माच्च धातोः प्रागेव प्रयुज्यन्ते । साक्षात्कृत्य, साक्षात् कृत्वा,असाक्षाद्भूतं साक्षाद्भ तं कृत्वेत्यर्थः, एवं-मिथ्याकृत्य, मिथ्या कृत्वा । व्यर्थ इति किम् ? यदा साक्षाद्भूतमेव किंचित् करोति, तदा साक्षात्कृत्वेत्येव भवति । च्व्यन्तानां तु 'ऊरी'-[३. १. २.] अादिसूत्रेण नित्यमेव गतिसंज्ञा, लवणीकृत्य10 उष्णीकृत्य। साक्षात्, मिथ्या, चिन्ता, भद्रा, रोचना, लोचना, अमा, आस्था, अग्धा, प्राजर्या, प्राजुरा, प्राजरुहा, बीजर्या बीजरुहा, संसर्पा । अर्थेअग्नौ, वशे, विरूपने, प्रकपने, विसहने, प्रसहने, प्रतपने। अर्थेप्रभृतयः सप्तम्येकवचनान्तप्रतिरूपकाः स्वभावात् निपाताद्वा। लवणम्, उष्णम्, शीतम्, उदकम्, आर्द्रम्,-लवणादीनामेतत्सूत्रविहितगतिसंज्ञासंनियोग एव15. मान्तत्वं निपात्यते । प्रादुस् आविस्, नमस् इति साक्षादादिः ।। १४ ।। . न्या० स०--साक्षादादि०। व्यन्तानां त्विति अर्थग्रहणात् च्व्यन्तानां विकल्पो न भवति, साक्षादिति सादृश्यप्रत्यक्षयोः । मिथ्या इति अलोके, चिन्ता इति मानसे व्यापारे, भद्रादयः त्रयः प्रशंसायाम्, अमा इति सहार्थे, आस्था इति आदरप्रतिज्ञयोः, अग्धादयः षट् शोभार्थे, प्राजर्या इति रहः समवाय-संयोग-सामर्थ्येषु, बीजर्या बीजरहा इति20 बीजप्रसवनेऽपि, संसर्पा इति प्रयोजनसंवरणयोः, अग्नौ इति तैक्ष्ण्ये, वशे इति अस्वातन्त्र्ये, विकपने प्रकपने इति उभौ वैरूप्ये, विकपने हिंसायां प्रकपने इत्यन्ये । विसहने प्रसहने इति उत्साहे सामर्थ्य च, निपाताति आकारान्तानां ध्वनीनां निपातनादाकारान्तत्वं, न तु पाबन्तत्वम्, लवरणम इति रुच्यर्थ, उष्णं इति अभिभवे, शीतं इति अनादरे, उदकं इति क्लेदे द्रवे च, आर्द्र इति सोदकाभिनवयोः । मान्तत्वं निपात्यत इति तेन लवणी-25 कृत्येत्यादौ पूर्वसूत्रविहितगतिसंज्ञासन्नियोगे न भवति, तथा लवणं कृत्वा यवागू भुङ्क्त, शीतः कृतः, शीता कृता, शीताः कृताः इत्यादावभिधेयवल्लिङ्ग गतिसंज्ञाया. अभावान्मान्ताभावः ॥ ३. १. १४ ॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy