________________
[ पा० १. सू० २. ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
समासाभा
द्वावानयेत्यपूपावित्यादी द्विवचनादवगतेऽपि द्वित्वे द्विशब्दस्य प्रयोग इति । वादिति । गतिसंज्ञाया प्रभावात् 'गतिक्वन्य०' [ ३. १. ४२. ] इत्यनेन । 'प्रतिरतिक्रमे च' [ ३. १. ४५. ] इत्यपि बाहुलकान्न । वृक्षवृक्षमऽभिसिञ्चतीति- वीप्स्यार्थेनाऽभिना योगात् 'लक्षणवीप्स्य' [ २.२.३६. ] इति द्वितोया । धात्वर्थं बाधत इति, प्रादेरव्ययत्वादनेकार्थतां दर्शयति धातुपा योऽर्थस्तदपेक्षया घात्वर्थं बाधते इत्युक्त, अन्यथा - 5 ऽनेकार्थत्वाद् धातूनामयमर्थो न स्यात् । अतिशय्येति- जित्वा इत्यर्थः । प्रतिष्ठते इत्यादि - अत्र तिष्ठत्यादयोश्चत्वारो गतिनिवृत्त्यादिलक्षणं प्रसिद्धमर्थं परित्यज्य तत्प्रतिपक्षभूते प्रस्थानविस्मरणप्रवासप्रलयलक्षणे वर्त्तन्ते, तदुत्तरौ त्वर्थान्तरमात्रे पालने इति । श्राचामतीति इदं मतान्तरेणोक्त, स्वमते तु बाधा धात्वर्थस्य । श्रभ्यन्तरीकृत्येति-बुद्धिस्थी कृत्येत्यर्थः । यस्माद्विशिष्टैव क्रियेति । क्रियाया: क्षणिकत्वात्, सामान्यक्रियाया 10 उत्पत्त्यनन्तरमेव विनाशादुपसर्गयोगे न स्याद् विशिष्टत्वमित्यर्थः ।
[ ४२१
अन्तरङ्गत्वादेत्वदीर्घत्वयोरिति संपन्नकारणत्वादेत्वदीर्घत्वयोरन्तरङ्गत्वं
मस्य तु संपत्स्यमानकारणत्वाद् बहिरङ्गत्वम्, कृते च यबादेशे एकपदत्वात्तागमस्यैवान्तरङ्गत्वम् । ‘व्यञ्जनस्यानादेर्लुक्' [४. १. ४४.] इतीति - उभयोः स्थाने निष्पन्नत्वात् कारवकारयोर्धातुव्यपदेशात् पुनरपि ' व्यञ्जनस्यानादेर्लु' क्' [४. १.४४.] भवति 115 तस्याधातुत्वादिति सन्नादेः प्रत्ययस्य क्रियार्थत्वेऽपि न धातुत्वं म्वादिसाहचर्यात् भ्वादयोऽप्रत्यया एव धातवो ऽन्येऽपि तथा । अमनो मनः सुभवति दुर्भवति अभिभवतीति वाक्यं कर्त्तव्यं 'व्यर्थे भृशादेः स्तो:' [ ३. ४. २६. ] क्यङ सलोपश्च सुशब्दस्य भवतिना संबन्ध इति यदा तु असुमनाः सुमना इति मनसा संबन्धस्तदा सुशब्दस्य प्राक्त्वं सिद्धमेव । ननु सुकटंकराणि वीररणानि, दुष्कटंकरारिण वीरणानीत्यत्र गतिसंज्ञकस्य सुशब्दस्य धातो: 20 प्राक् प्रयोगः प्राप्नोति ? नैवम्, 'दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात् खल्' [५.३.१३६.] 'च्व्यर्थे कर्त्राप्याद्भूकृग:' [५. ३. १४०.] इत्यत्र च खित्करणात् तस्य ह्य ेतत् प्रयोजनं खिति मोन्तो यथा स्यात्, यदि च सुशब्दस्य प्राग् धातोः प्रयोगः स्यात्तदा खित्करणमनर्थकं स्यादिति, सुशब्दादिना कटादेर्व्यवधानात्, सुशब्दात्त्वव्ययत्वान्न भवति ।। ३. १. १ ।।
ऊर्याद्यनुकरणच्विडाचश्च गतिः ॥ ३.१.२ ॥
ऊर्यादय, अनुकरणानि च्व्यन्ता, डाजन्ताश्च शब्दा, उपसर्गाच धातोः संबन्धिनो गतिसंज्ञा भवन्ति, तस्माच्च धातोः प्रागेव प्रयुज्यन्ते । ऊर्यादिः - ऊरीकृत्य, उररीकृत्य, ऊरीकृतम्, उररीकृतम् । अनुकरणखाट्कृत्य, फूत्कृत्य, कथं खाडिति कृत्वा निरष्ठीवदिति ? - इति शब्देन व्यवधानान्न भवति । च्व्यन्तः:- शुक्लीकृत्य, घटीकृत्य । डाजन्त - पटपटाकृत्य, 30 सपत्राकृत्य । उपसर्गः– प्रकृत्य, पराकृत्य, प्रकृतम्, पराकृतम् । ऊरी, उररी,
ताग
25