________________
४२२ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० २.]
अङ्गीकरणे, विस्तारे च, उरुरी-अङ्गीकारे,-एते त्रयो भृशार्थप्रशंसयोरपि । पाम्पी-विध्वंसमाधुर्यकरुणविलापेषु । ताली, आताली, वर्णोत्तमार्थयोः। धूशी-कान्तिकाङ्क्षयोः । पाम्प्यादयो विस्तारेऽपि । शकला, शंसकला, ध्वंशकला, भ्रशकला, पालम्बी, केवाशी, शेवाली, पार्दाली, मस्मसा, मसमसा,-एते हिंसायाम्, आद्याश्चत्वारः 5 परिभवेऽपि, ततः परे चत्वारश्चाविष्कारेऽपि, अन्त्यौ च द्वौ-चूर्णसंवरणयोरपि । पार्दाली-शब्दार्थेऽपि, मस्मसा, मसमसानुकरणेऽपि केचित्तु मस्मसेत्यत्र ऋकारौ निपात्य मस्मसेति पठन्ति, केचिदालम्बीस्थाने आलोष्ठीति पठन्ति । गुलुगुधा-क्रीडापीडयोः । गुलगुधेत्यन्ये मन्यन्ते । सजूः-सहार्थे । फलू, फली, . विक्ली, प्राक्ली,-एते विकारे । आद्यौ क्रियासंपत्तिकर्मसिद्धचकण्टकेष्वपि,10 अन्त्यौ तु विचार विभागयोरपि । श्रौषट्, वषट्, वौषट्, स्वाहा, स्वधा,देवतासंप्रदानदानमात्रयोः, वषट्-पूजायामपि, स्वधा तृप्तिप्रीतिप्रत्यभिवादनेष्वपि, श्रत् श्रद्धाने शीघ्र च । प्रादुस्, आविस्, प्राकाश्ये-पशू केवाली,-हिंसायाम् । वेताली-विस्तारे। केचित्तु धूली वर्षाली पाम्पालीविचालीशब्दानप्यधीयते, इत्यूर्यादयः । एषां विडाच्साहचर्यात्15 कृभ्वस्तिभिरेव योगे गतिसंज्ञा । श्रतश्च दधातिकरोतिभ्याम् । प्रादुराविःशब्दौ कृग्योगे विकल्पार्थं साक्षादादावपि पठ्य ते गतिप्रदेशाः “गतिः" [१. १. ३६.] इत्यादयः ।। २ ।।
न्या० स०--ऊर्याद्य० । सोऽयमित्यभेदोपचारेण कुतश्चित् सादृश्यात् येनानुक्रियते तदनुकरणमित्याह-अनुकरणानीति-च्चिडाचोः प्रत्ययत्वात् प्रकृतेराक्षेपात् प्रत्ययमात्रस्य20 धातुसंबन्धासंभवाच्च तदन्तप्रतिपत्तिरित्याह-च्च्यन्ता इति । डाजिति चित्करणाप्तिता कृत्वेत्यादौ पितृशब्दात् 'ऋदुशनस्' [१. ४. ८४.] इत्यनेन डा इति तदन्तस्यागतित्वात्ततो यबादेशाभावः । खाडिति कृत्वेति-कृत्वेत्यस्य इतिना संबन्धः, इतेश्च खाट्इत्यनेन अतो धातो: खाटश्च परस्परं न संबन्धः। खाकृत्येत्यत्र-खाडिति मूर्धन्यान्तोऽनुकरणशब्दोऽव्युत्पन्नः, एवं पूच्छब्दोऽप्यव्युत्पन्नः। विस्तारे चेति-अत्र एकत्रावस्थितस्य25 स्वावयवैरनियतदिग्देशव्याप्तिविस्तारः । उरुरीत्यत्र ‘महत्त्युर्च' ७३७ (उणादि) इति 'उ' प्रत्यये उरुः तं रीयते । माधुर्यकरुणेत्यत्र-रसनेन्द्रियग्राह्यो मनः प्रीतिजनको गुणविशेषो माधुर्यम्, इष्टवियोगजनितं शब्दं रोदनं करुणविलापः । पाम्पीत्यत्र च पिबतेः 'अर्तीरिस्तु' ३३८ (उणादि) इति मे पामस्तत्पूर्वात्पीयतेः क्विपि निपातनात्