________________
४२० ]
बृह वृत्तिलघुन्याससंवलिते
[पा० १. सू १.]
चैतद्वाच्यम् प्रत्ययसंबन्धमन्तरेण क्रियाविशेषस्यानभिव्यक्तने धातोः पूर्वमुपसर्गेण संबन्धो युज्यते । यतः
"बीजकालेषु संबद्धा, यथा लाक्षारसादयः । वर्णादिपरिणामेन, फलानामुपकुर्वते ।। १ ।” "बुद्धिस्थादभिसंबन्धात्तथा धातूपसर्गयो।
अभ्यन्तरीकृतो भेदः, पदकाले प्रकाश्यते ।। २ ।।" यद्येवमुपेत्याधीत्येत्यादावन्तरङ्गत्वादेत्वदीर्घत्वयोः कृतयोह्रस्वाभावात्तोऽन्तो न प्राप्नोति, सत्यम् ; 'असिद्धं बहिरङ्गमन्तरङ्ग' इति भविष्यति । प्रेजुः प्रोपुः इत्यत्र तु यज्वपोर्वृति द्वित्वे च सति अन्तरङ्गत्वात्समानदीर्घत्वे पश्चादेदोतौ। यद्वा पूर्वमेदोतो ततोऽयवादेशे. 'व्यञ्जनस्यानादेर्लुक्'.. [४. १. ४४.] इति लुकि पुनरेदोतौ। ननु कर्तुं प्रकर्षणेच्छति प्रचिकीर्षति इत्यादौ धात्वन्तरसंबद्धस्योपसर्गस्य तदर्थप्रतिपादकप्रत्ययादेव प्राक्प्रयोगः प्राप्नोति, नैवम्, तस्याधातुत्वात्, समुदायस्यैव धातुत्वात् । एवं मनःशब्दात् सुभवतो, दुर्भवती, अभिभवतौ, क्यप्रत्यये सुमनायते, दुर्मनायते, अभिमनायते, हस्तिनातिकामति-प्रतिहस्तयति, सेनया अभियाति; 15 अभिषेणयतीत्यादावपि द्रष्टव्यम् ।
धातोरिति प्राक्चेति चाधिकारो गतिसंज्ञां यावत् । प्र परा अप सम् अनु अव निस् दुस् निर् दुर् वि आङ् नि अधि प्रति परि उप अति अपि सु उत् अभि इति प्रादिः ॥ १ ॥
न्या० स०--धातोः पूजार्थ। अनेकार्थत्वाद्धातूनां कुत्रापि श्रूयमाणार्थबाधया-20 ऽर्थान्तरं द्योतयति, कुत्रापि श्रूयमाणमेवेत्युक्त-तदर्थद्योतीति । प्राक्शब्दस्याऽव्यवहिते वर्त्तनादाह-न पर इति । धात्वर्थः प्रशस्यते इति-शोभनत्वोभावनेन सिचिस्तौत्योरर्थस्य कर्तु: पूजा प्रतायत इत्यर्थः । गतार्थावऽधिपरी इति गतो ज्ञातोऽर्थोऽभिधेयं ययोस्तौ गताथौं, योऽर्थोऽनयो?त्यस्तस्य प्रकरणादिवशादऽवगमे निष्प्रयोजनावेतावुच्यते इति गतार्थत्वं, यद्येवं प्रकरणादिनोक्तत्वात्तदर्थस्य तयोः प्रयोगाऽयोगः ? उच्यते, प्रकरणादिवशाद-25 ऽवगतार्थानामऽपि स्फटतरार्थाऽवगत्यर्थः प्रयोगो लोके भवति । यथा-अप्रपौ द्वौ ब्राह्मणौ