________________
[पा० १. सू. १.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४१६
गतार्थग्रहणं किम् ?-अध्यागच्छति, पर्यागच्छति-अत्रोपरिभावस्य सर्वतोभावस्य च प्रकरणादेरप्रतीतस्य द्योतने उपसर्गसंज्ञास्त्येवेति प्राक्त्वनियमः । अतिक्रमार्थोऽतिः-यदर्थ क्रिया तस्मिन् निष्पन्ने क्रियाप्रवृत्तिरतिक्रमः-अतिसिक्त भवता, अतिस्तुतम् भवता,-अतिक्रमेण सेकः स्तुतिश्च कृतेत्यर्थः, अत्र षत्वं न भवति । अतिसिक्त्वा, अतिस्तुत्वा,-अत्र समासाभावाद्यबादेशो न भवति । 5 अतिक्रमग्रहणं किम् ? अतिशय्य । प्रादिग्रहणं किम् ?-पुनर्नमति, साधु सिञ्चति ।
"धात्वर्थं बाधते कश्चित्, कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्योऽनर्थकोऽन्यः प्रयुज्यते" ।। १ ।।
बाधते यथा-प्रतिष्ठते, प्रस्मरति, प्रवसति, प्रलीयते, प्रतीक्षते,10 प्रतिपालयति, तमनुवर्तते यथा-अधीते, अध्येति, प्राचामति, प्राचष्टे, अनुरुध्यते, प्रलोकयति, तमेव विशिनष्टि यथा-प्रपचति, प्रकरोति, प्राणिति, प्राश्नाति, निरीक्षते, निष्टपति, अनर्थको यथा-प्रलम्बते, प्रार्थयते, विजयते, विजानाति, निमीलति, निखञ्जति, निरजति, एषां चाऽऽपञ्चभ्यः प्रायेण प्रयोगो भवति, आहरति, व्याहरति, अभिव्याहरति, समभिव्याहरति,15 प्रसमभिव्याहरतीति ।
__ अथ किं धातुः पूर्व क्रियाविशेषकेणोपसर्गेण युज्यते उत साधनाभिधायिना प्रत्ययेनेति ?-साधनेनेति केचित् । साधनं हि क्रियां निवर्तयति तामुपसर्गों • विशिनष्टि, अभिनिर्वृत्तस्य चोपसर्गेण विशेषः शक्यो वक्तुं नानभिनिर्वृत्तस्य, तदयुक्तम्, यो हि धातूपसर्गयो रभिसंबन्धस्त20 मभ्यन्तरीकृत्य धातुः साधनेन युज्यते । यस्माद्विशिष्टव क्रिया साधनेन साध्यते, न तु साधनाल्लब्धस्वरूपान्यतो विशेषं लभते, तस्मात्पूर्वमुपसर्गेणेति युक्तम् । तथा च समस्करोत्संचस्कारेत्यत्रान्तरङ्गत्वात् स्सटि कृते प्रत्ययनिमित्ते अडागमद्विवचने भवतः, अतश्च वम् । पूर्व हि धातोः साधनेन संबन्धे आस्यते गुरुणेत्यकर्मकः, उपास्यते गुरुरिति सकर्मको धातुः केन स्यात् ? न25