SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः प्रथ प्रथमः पाद: धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थातिव प्रादिरूपसर्गः प्राक्च ॥ ३. १.१॥ धातोः संबन्धी तदर्थद्योती चाद्यन्तर्गतः प्रादिः शब्दगण उपसर्गसंज्ञो । भवति, तस्माच्च धातोः प्राक् प्रयुज्यते न परो न व्यवहितः पूजाौँ स्वती गतार्थावधिपरी अतिक्रमार्थमतिं च वर्जयित्वा। प्रणयति, परिणयति, अभिषिञ्चति, निषिञ्चति, प्रलम्भः, उपलम्भः । एषूपसर्गसंज्ञायां . गत्वषत्वनागमाः सिद्धाः । धातोरिति किम् ? वृक्षवृक्षमभिसिञ्चति । प्रगता नायका यस्मात्स प्रनायको देशः इत्यत्र तु सत्यपि धातुसंबन्धे येनैव 10 धातुना संबद्धाः प्रादयस्तं प्रत्येवोपसर्गसंज्ञा इति गमिसंबन्धेऽपि नयति. प्रत्यनुपसर्गत्वात् णत्वं न भवति । एवं प्रर्छको देश इत्यत्रारादेशो न भवति । पूजार्थस्वत्यादिवर्जनं किम् ? पूजाथौं स्वती-सुसिक्तम् भवता, सुस्तुतं भवता, अतिसिक्त भवता-अतिस्तुतं भवता, धात्वर्थः प्रशस्यते,-अत्रोपसर्गसंज्ञाया अभावात् षत्वं न भवति । पूजाग्रहणं किम् ?-सुषिक्त नाम किं तवात्र ?-15 धात्वर्थोऽत्र कुत्स्यते । गतार्थावधिपरी-अध्यागच्छत्यागैत्यधि, पर्यागच्छति आगच्छति परि। उपरिभावः सर्वतोभावश्चान्यतः प्रकरणादेः प्रतीयत इति गतार्थत्वम्, अत्र प्राक्त्वनियमाभावः। अध्यागमनं प्रयोजनमस्याध्यागमनिकः, पर्यागमनिकः-पत्र 'प्रयोजनम्' [६. ४. ११७.] इतीकणि अधिपरिशब्दयोरादेरकारस्य वृद्धिर्न भवति । उपसर्गत्वाभावेन गतिसंज्ञाया अभावे20 समासाभावेन पृथक्पदत्वात् । पर्यानीतम्-अत्रानुपसर्गत्वाणो न भवति ।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy