SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ [ पा० ४. सू० ११३. ] श्री सिद्धहेमचन्द्र शब्दानुशासने द्वितीयोऽध्यायः [ ४१७ स्त्त्वं निपात्यते । नरान् कायतीति-नरिका " आतो डोह, वा-वा-मः” [५. १.७६. ] इति डः । ममेयं - मामिका, अनि ममकादेशः, "केवलमामक० [ २. ४. २६ . ] इत्यादिना संज्ञायां ङीप्रत्ययस्य नियमादाप्, ककारस्याप्रत्ययसम्बन्धित्वात् पूर्वेणाऽप्राप्ते वचनम् ।। ११२ ।। 13 तारका-वर्णका-ष्टका ज्योतिस्तान्तर्वापितृदेवत्ये 3 ।। २. ४. ११३ ॥ तारकादयः शब्दा यथासंख्यं ज्योतिरादिष्वर्थेषु इकारादेशरहिता निपात्यन्ते । तरतेर्णके-तारका-ज्योतिः, तच्च नक्षत्रं कनीनिका च, नक्षत्रमेवेत्यन्ये, अन्यत्र - तारिका । वर्णयतीति णके - वर्णका - तान्तवः प्रावरणविशेषः, अन्यत्र वरिणका - भागुरी लोकायतस्य । प्रश्नोतेरौणादिके 10 तककि- प्रष्टका - पितृदेवत्यं कर्म, अन्यत्राष्टौ द्रोणाः परिमाणस्या इति केअष्टिका खारी । पितृदेवतार्थं कर्मेति "देवतान्तात् तदर्थे” [ ७. १२२.] इति ये - पितृदेवत्यमिति सिद्धम् ।। ११३ ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ [ तत्त्वप्रकाशिकायां ] द्वितीयस्याध्यायस्य चतुर्थः पादः समाप्तः [२. ४. ] 15 श्रीमूलराजक्षितिपस्य बाहुबिर्भात पूर्वाचलशृङ्गशोभाम् । संकोचयन् वैरिमुखाम्बुजानि यस्मिन्नयं स्फूर्जति चन्द्रहासः ।। ८ ।। समाप्तोऽयं द्वितीयोऽध्यायः ।। न्या० स०--तारका व० । णिजन्ताद् वर्ण्यत इति संज्ञायां णके - वरका, 20 वर्णयतीति तु चौरादिकप्रतिपत्त्यर्थं तिवा निर्देशो, न तु णकारम्भकः, अथवा वर्णयतिआधारविशेषगतमाधेयगुणं वादयतीति ।। २. ४. ११३ ।। इत्याचार्य० द्वितीयस्याध्यायस्य चतुर्थः पादः संपूर्णः ॥ ।। समाप्तोऽयं द्वितीयोऽध्यायः ॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy