________________
४१६ ]
बृहवृत्तिलधुन्याससंवलिते
[पा० ४. सू० १११-११२.]
यत्तत्०" [ २. ४. १११. ] इति इकारः। भागुरिः प्राचार्यः, बाहुलकात् स्त्रीलिङ्गः, लोके आयतं लोकायतं नास्तिकशास्त्रम् ।। २. ४. ११० ।।
अस्याऽयत्-तत्-क्षिपकादीनाम् ॥ २. ४. १११ ॥
यत्-तत्-क्षिपकादिवजितस्य नाम्नो योऽकारस्तस्यानित्प्रत्ययावयवे ककारे आप्परे परत इकारो भवति, वेति निवृत्तं पृथग्योगात् । जटिलिका, बधिरिका, 5 मुण्डिका, कारिका, पाचिका, मुद्रिका । अस्येति किम् ? गोका, नौका । अनित्कीत्येव-जीवका, नन्दका "आशिष्यकन्" [५. १. ७०.] । अनित इति पर्युदासेन प्रत्ययग्रहणादिह न भवति-शक्नोतीति-शका, तका। आप्पर इत्येव-कारकः, हारकः । आबेव परो यस्मादिति नियमः किम् ? बहुपरिव्राजका मथुरा, बहुमद्रका सेना, विभक्त्यन्तादयमाबिति प्रतिषेधः । यत्-तत्-10 क्षिपकादिवर्जनं किम् ? यका, सका, क्षिपका, ध्रुवका, धुवका, लहका, चरका, चटका, इष्टका, एडका, एरका, करका, अवका, अलका, दण्डका, पिष्पका, कन्यका, मेनका, द्वारका, रेवका, सेवका, धारका, उपत्यका, अधित्यकेत्यादि । बहुवचनमाकृतिगणार्थम् ॥ १११ ।।
न्या० स०--अस्यायत्त । पृथग्योगादिति-अयमर्थः-यद्यत्रापि विकल्पः स्यात् 15 तदा 'स्विका, स्वका' इत्यादौ "यादीदूतः०" [ २. ४. १०४. ] इति ह्रस्वत्वेऽनेन वैकल्पिकस्य इत्वस्य सिद्धत्वात् “स्वज्ञाजभस्त्रा०" [ २. ४. १०८. ] इत्यादीनां पृथुगुपादानमनर्थकं स्यादित्यर्थः । मुण्डिकेति-मुण्डयतीति "णक-तृचौ" [५. १. ४८.] इति णकः । मद्रिकेति-माद्यतीति रप्रत्ययः, ततो "व्रजिमदाद् देशात् कः" [६. ३. ३८.] इति क-प्रत्ययः। प्रत्ययग्रहणादिति-अथवा प्रत्ययपरिग्रहे च "नरिकामामिका"20 [२. ४. ११२.] इति ज्ञापको। बहुपरिव्राजकेति-ननु चात्र ककारादाबेव श्रूयते नान्यदिति कथं प्रतिषेध इत्याह-विभक्त्यन्तेत्यादि । एडकेत्यादि-अत्र ईडिक् ईरिक् प्राभ्यां "कीचक०" [ उरणा० ३३. ] इति निपातनाद् गुणे-एडका, एरका। क्षिपका आयुधविशेषः । ध्र वका धुवकेति आवपनविशेषौ । लहका सविलासा स्त्री। चरका ऋषिः । एडका प्रजाविशेषः । एरका तृणम् । करका घनोपल:, त्रिलिङ्गः। अवका शेवालः ।25 अलका दण्डका नगयौं । पिष्पका अश्वत्थस्य फलम् । मेनका गौरीमाता अप्सराश्च । द्वारका नगरी ।। २. ४. १११ ॥
नरिका मामिका ॥ २. ४. ११२॥ नरकशब्दस्य मामकशब्दस्य चाप्रत्ययावयवे ककारे आप्परे परतोऽकार