________________
बृहद्वृत्ति - लघुम्याससंवलिते
[ पा० ४. सू० १०६. ]
यिका, क्षत्रियका; आर्यिका, आर्यका । ककार - चटकिका, चटकका; मूषकिका, मूषकका एलकिका, एलकका । धातुत्यवर्जनं किम् ? सुनयिका, सुशयिका; अशोकिका, सुपाकिका; दाक्षिरणात्यिका, पाश्चात्यिका, इहत्यिका, अमात्यिका । आप इत्येव - कुत्सिता स्वा आत्मा आत्मीया वा सर्वादित्वादकि- स्विका । सांकाश्ये भवा योपान्त्यलक्षणेऽकञि - सांकाश्यिका, एवं काम्पील्यिका, हृदिकं 5 भजति हार्दिकिका; अत्र “गोत्रक्षत्रियेभ्योऽकञ् प्रायः ' [६. ३. २०८. ] इत्यकञ्, एवं - श्वाफल्किका, सर्वत्रोत्तरेण नित्यमिकारः । कथं बह वपत्यका ? बहुपत्यका ? ; नात्र त्यप्रत्ययः, प्रत्यया ऽप्रत्यययोश्च प्रत्ययस्यैव ग्रहणम् । अथ शुष्किकेत्यत्र कथं न विकल्पः ? क्तादेशस्य कस्यासिद्धत्वात् ।। १०८ ।।
४१४]
न्या० स० -- स्वज्ञाज० । धातुश्च त्यश्व - धातुत्यौ, न धातुत्यो- प्रधातुत्यौ यश्च 10 कश्व-यकम् श्रधातुत्ययोर्यकम् - प्रधातुत्ययकम्, स्वश्व ज्ञश्च प्रजा भस्त्रश्च प्रधातुत्ययकं च - स्वज्ञाजभस्त्राधातुत्ययकं तस्मात् । अत्र सूत्रेऽपुस इति नानुवर्ततेऽसंभवात्, आरम्भसामर्थ्याच्च । [ कुत्सिता ] स्वा ज्ञातिः - स्विका इति यद्यपि स्वशब्द: "स्वो ज्ञातावात्मनि क्लीबे, त्रिष्वात्मीये धनेऽस्त्रियाम्" इति पठ्यते तथापि कुत्सिताद्यर्थविषये ज्ञातावपि स्त्रीत्वमत एव पाठात् भवति ह्य ुपाधिभेदाद् ह्रस्वे कृते लिङ्गयोगस्तदन्य- 15 लिङ्गत्वं च यथा पचतिरूपमित्यलिङ्गस्यापि नपुंसकलिङ्गत्वम्, कुटीरमिति स्त्रीलिङ्गस्यापि नपुंसकलिङ्गत्वम् । विचित्रा हि शब्दशक्तयः; यद्वा ज्ञातिरत्र स्त्रीरूपा विवक्षिता, तेन योनिमन्नामत्वात् स्वशब्दस्य स्त्रीत्वम् । न विद्यते स्वा यस्या इति कृते कपि श्रस्विका, प्रस्वकेति रूपे, कपि निमित्तभूते विकल्पपक्षे “प्रस्यायत्तत्०” [ २..४. १११. ] इति न विकल्पसामर्थ्यात्, कचि तु "नवाप: " [ २. ४. १०६. ] इति ह्रस्वे 20 कृते " अस्यायत्तत् ० " [ २. ४. १११. ] भवत्येव, न च सूत्रविकल्पः प्रवर्त्तते, सूत्रं विनापि स्विका अस्वकेति सिध्यतीति अस्विकेलि रूपमेकरूपेणेव गतार्थमिति । दाक्षिरणात्यिकेति - दक्षिणस्यां भवा "दक्षिणापश्चात् ०" [ ६. ३. १३. ] इति त्यण्, अत्र “सर्वादयोऽस्यादौ” [ ३. २. ६१. ] इति पुंवद्भावो न भवति, “दक्षिणापश्चात् ०" [ ३. २. ६१. ] इत्यत्र प्रकारनिर्देशात्; यद्वा "कौण्डिन्यागस्त्ययो : ० " [ ६. १.25 १२७. ] इति ज्ञापकात् । स्वा श्रात्मा श्रात्मीया वेति - स्त्रीसम्बन्ध्यत्रात्मा विवक्षितः, तस्य च योनिमता स्त्रीशरीरेणाभेदोपचाराद् योनिमन्नामत्वात् 'स्वा' इत्यत्र स्त्रीत्वम्, बाहुलकाद् वा स्त्रीत्वम् । श्वाफल्किकेति श्वानं फालयति श्वफल्कः, अन्धकविशेषः
।। २. ४. १०८ ॥
द्वये ष- सूत-पुत्र - वृन्दारकस्य ॥ २. ४. १०६ ॥ प्राप इति निवृत्तं पृथग् योगात्, एषामन्तस्यानित्प्रत्ययावयवे ककारे
30