________________
[पा० ४. सू० १०८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ४१३
न्या० स०-इच्चापुंसो०। न् इत्-अनुबन्धो यस्य प्रत्ययस्याऽसौ-नित्, न नित्-अनित्, तस्य सम्बन्धी क्-अनित्क्, तस्मिन् । प्रिया खट्वा यस्याः "शेषाद्वा" [७. ३. १७५. ] विकल्पेन कचि-प्रियखटिवकेत्यादि रूपत्रयं भवति । आपीति कृते उपश्लेषसप्तम्यैव प्राबुपश्लिष्टे ककारे इत्वमित्यर्थस्य सिद्धेः परग्रहणं नियमार्थमित्याहप्राबेव पर इति । सविकेति-सर्वा नाम काचित, ततः स्वार्थे "यावादिभ्यः कः" 5 [ ७. ३. १५. ] "यादीदूतः के" [ २. ४. १०४. ] ह्रस्वत्वे “अस्यायत्तत्" [ २. ४. १११.] इकारः। सर्वादेः सर्वशब्दस्य तु "त्यादिसर्वादे:०" [७. ३. २६. ] इत्यनेनाऽन्त्यस्वरात् प्रागकि-सविकेति-अत्रापः स्थानित्वमपि न स्यात् । मातृकेतिननु यथा इहाप् नास्ति तथा मिमोते इति धान्यमातुरपि मातृशब्देनाभिधानात् 'अपुसः' इत्यपि न स्यात्, ततो द्वयङ्गविकलत्वान्ने द्रं प्रत्युदाहरणं युज्यते, प्रत्युदाहरणं हि10 तदङ्गाभावे कार्याभावं प्रदर्शयत् तदङ्गसामर्थ्यप्रदर्शनार्थमुपादीयते, तत्राङ्गद्वयवैकल्प्येऽस्याङ्गस्य वैकल्प्यादिह कार्याभाव इति निर्णयाभावादेकस्याप्यभाव इति; नैष दोष:जननीवचनस्यान्यस्यैवाव्युत्पन्नस्य मातृशब्दस्य ग्रहणात्, यद्वा प्रत्युदाहरणदिग्मात्रमिदं, तेन स्वसृकेत्यादि प्रत्युदाहरणं द्रष्टव्यम् ॥ २. ४. १०७ ।।
स्व-ज्ञा-ज-भस्त्रा -धातुत्ययकात् ।। २. ४. १०८॥
15
स्व-ज्ञा-5-ज-भस्त्रेभ्यः, अधातोरत्यप्रत्ययस्य च याववयवौ यकार-ककारौ ताभ्यां च, परस्यापः स्थानेऽनित्प्रत्ययावयवे ककारे आप्परे परत इकारो वा भवति । कुत्सिता स्वा ज्ञातिः-स्विका, स्वका; अस्विका, अस्वका; निःस्विका, निःस्वका; बहुस्विका, बहुस्वका; ज्ञातिधनाख्यायामसर्वादित्वादकोऽभावे कप्रत्ययान्तः स्वशब्दः । ज्ञिका, ज्ञका; अज्ञिका, अज्ञका; निक्षिका,20 निर्जका; बहुज्ञिका, बहुज्ञका; अजिका, अजका; अनजिका, अनजका; निरजिका, निरजका; बह वजिका, बह वजका। भस्त्रग्रहणं स्त्री-पुंससाधारणवृत्तेर्ग्रहणार्थम्-अविद्यमाना भस्त्रा यस्याः सा-अभस्त्रा, सैवाल्पाअभस्त्रिका, प्रभस्त्रका; एवं-निर्भस्त्रिका, निर्भस्त्रका; बहुभस्त्रिका, बहुभस्त्रका; अतिभस्त्रिका, अतिभस्त्रका; अत्र हि गौणस्य ह्रस्वत्वे कृते25 समासात् स्त्री-पुंससाधारणादाबिति पूर्वेण न सिध्यति; यदा त्वपुंस्कादाप् विधीयते तदा पूर्वेण त्रैरूप्यमेव-भस्त्रिका, भस्त्रका, भस्त्राका; न भस्त्राअभस्त्रा, साऽल्पा चेत्-अभस्त्रिका, अभस्त्रका, अभस्त्राका; एवं-परमभस्त्रिका, परमभस्त्रका, परमभस्त्राका। यकार-इभ्यिका, इभ्यका; क्षत्रि