SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४१२ ] बृहद्वृत्तिल घुन्याससंवलिते [ पा० ४. सू० १०६ - १०७.] कचि प्राप्तिरेव नास्तीत्याह-न कचीति प्रतिषेध इति - नैषादकर्षुकः, शाबरजं० ।। २.४. १०५ ॥ नवापः ।। २.४. १०६ ॥ आपः कचि परे ह्रस्वो वा भवति पूर्वेण प्रतिषेधे प्राप्ते पक्षे ह्रस्वार्थमिदम् । प्रियखट्वकः, प्रियखट्वाकः ; बहुमालकः, 5 बहुमालाकः ।। १०६ ।। इच्चाsy' सोsनित्क्याप्परे ॥ २. ४. १०७ ॥ आबेव परो यस्माद् न विभक्तिः स प्राप्परः, अपुंलिङ्गार्थाच्छब्दाद् विहितस्यापः स्थाने इकारो ह्रस्वश्च वा भवतः, अनितोऽनकारानुबन्धस्य प्रत्ययस्यावयवभूते कि -- ककारे प्राप्परे परतः । अल्पा खट्वा -- खविका, 10 खट्ट्टका, खट्वाका; परमखद्विका, परमखट्वका, परमखट्वाका; प्रिया खट्वा यस्याः सा-- प्रियखद्विका, प्रियखट्वका, प्रियखट्वाका । चकारो ह्रस्वानुकर्षणार्थः, 'तेनोभयविकल्पे त्रैरूप्यं सिद्धम् । पुंस इति किम् ? सर्विका । न विद्यते खट्वा अस्या इति "गोवान्ते० " [२. ४. ε६. ] इत्यादिना ह्रस्वत्वे स्त्रीपुंससाधारणात् पुनरापि -- अखट्वा, सैवाल्पा-15 अखविका, तथा खट्वामतिक्रान्ता - प्रतिखट्वा, सैवाल्पा - प्रतिखविका, अत्रापुंस्काद् विहित प्राप् न भवतीति त्रैरूप्यं न भवति । " ङयादीदूतः के" [२. ४. १०४. ] इत्यनेन तु ह्रस्वे कृते " अस्या०" [ २. ४. ११.] इत्यादिने - त्वमेव भवति, कश्चित् त्वपुंस्काद् विहित प्राबस्तीति भवत्येव रूपत्रयम्--न विद्यते खट्वा यस्याः सा - अखट्विका, अखट्का, अखट्वाका । अनिदिति 20 किम् ? अनुकम्पिता दुर्गादेवीति कप्नि-दुर्गका, “ङयादीदूत: के” [ २. ४. १०४.] इत्यनेन ह्रस्व एव भवति । कीति किम् ? खट्वाता, मालाता। आप्पर इति किम् ? प्रियरखट्वाकः पुरुषः । बेव परो यस्मादिति बहुव्रीहिः किम् ? प्रियखट्वाकमतिक्रान्ताऽतिप्रियखट्वाका, अत्र हि प्रथमं द्वितीया परा पश्चादाबिति | आप इत्येव - मातृका ।। १०७ ।। 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy