________________
[पा० ४. सू० १०४-१०५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ४११
न्या० स०--गोण्या० । विनैव तद्धितेन गोणीशब्दो गोणीप्रमितेऽर्थे व्रीह्यादावुपचाराद् वर्तते, यथा प्रस्थप्रमिते प्रस्थ इति, तस्य चायं ह्रस्व इति सूत्रारम्भ इत्यर्थः । सत्यामपि वा तद्धितलुचि 'अगोणीसूच्योः' इति प्रतिषेधे “गोश्चान्ते." [ २. ४. ६६. ] इति च समासे ह्रस्वस्य विज्ञानादिह नास्तीति तदर्थमिदमारभ्यते ॥ २.४.१०३ ।।
व्यादीदतः के ॥ २. ४. १०४ ॥ ___ ङीप्रत्ययस्याऽऽकारेकारोकाराणां च के प्रत्यये ह स्वो भवति । कुमारिका, पविका, सोमपकः, कीलालपकः, सोमपिका, कीलालपिका, लक्ष्मिका, तन्त्रिका, वधुका, यवागका, ब्रह्मबन्धुका। डीग्रहणं पुंवद्भावबाधनार्थम् । काक: पाक इत्यादौ तु प्रत्यया-प्रत्यययोः प्रत्ययस्यैव10 ग्रहणम् इति न्यायान्न भवति ।। १०४ ।।
न्या० स०--ड्यादीदू० । सोमपिकेत्यादौ ह्रस्वस्य दारदिकेत्यादौ च पिति पुवद्भावस्य सावकाशत्वात् पट्विकेत्यादौ चोभयप्राप्तो परत्वात् पुंवद्भावे पटिवकेत्यादि न सिध्यतीत्याह-ङीग्रहणमित्यादि-ङीग्रहणमनवकाशत्वात् पुवद्भावं बाधत इत्यर्थः । प्रत्ययाप्रत्ययोरिति न्यायान्न भवतीति-ककतेरचि पृषोदराद्यात्वं-काकः, पचनं-पाकः,15 पनि “क्त ऽनिट:०" [ ४. १. १११. ] इति कत्वम् । अथ कायतेः पिबतेश्च "भीणशलि-वलि." [उणा० २१. ] इति यदा कस्तदा ह्रस्व: कस्मान्न भवति ? उच्यतेउणादीनामव्युत्पन्नत्वात्, व्युत्पत्तिपक्षे तु बहुलवचनान्न भवति ।। २. ४. १०४ ॥
न कचि ॥ २. ४. १०५ ॥
यादीदूतः कचि प्रत्यये परे ह्रस्वो न भवति । बहुकुमारीकः,20 बहुकीलालपाकः, बहुलक्ष्मीकः, बहुब्रह्मबन्धूकः; खार्या क्रीतं--खारीकम्, एवं-- काकरणीकम्, “खारीकाकणीभ्यः कच्" [६. ४. १४६.] इति कच् । “न कचि" [ २. ४. १०५. ] इति प्रतिषेधः पूर्वसूत्रे निरनुबन्धग्रहणे न सानुबन्धस्य* इति न्यायस्याभावज्ञापनार्थः, तेन-निषादका जातो-- नषादकर्षुकः, एवं--शाबरजम्बुक इत्यादाविकणि ह्रस्वः सिद्धः ।। १०५ ॥ 25
न्या० स०-न कचि। बहुलक्ष्मीक इत्यत्र एकत्वे "पुमनडुन्नौ०" [ ७. ३. १७३. ] बहुत्वे तु 'शेषाद् वा' [७. ३. १७५. ] कच्। पूर्वसूत्रे क इति निरनुबन्धे