________________
४१० ]
बृहद्वृत्ति-लघुन्याससंवलिते :
[पा० ४. सू० १०१-१०३.]
क्रियते, तत्रैवं विज्ञास्यते-त्वप्रत्यये नाम्नि च ह्रस्वो भवतीति; नैवम्-तत्र ह्य त्तरपद इत्यस्ति, ततश्च त्वप्रत्यये नाम्नि चोत्तरपदे हस्वो भवतीति विज्ञानाद रोहिरिणत्वफलमजत्वफलमित्यत्र स्यात्, इह न स्यात्-रोहिरिणत्वमिति पृथुगुच्यते ।। २. ४. १०० ।।
भवोच्च स-कुट्योः ॥ २. ४. १०१ ॥
भ्र शब्दस्य कुंस-कुटयोरुत्तरपदयोः परयोह्र स्वोऽकारश्च भवति । 5 भ्रकुसः, भ्रकुंसः, भ्र कुटिः, भ्रकुटिः, भ्र कुंस-भ्रू कुटिशब्दावपीच्छन्त्यन्ये ।। १०१ ।।
न्या० स०-भ्र वोऽच्च०। भ्र वौ कुसयति “कर्मणोऽण्" [ ५. १. ७२. ] इति, भ्रवः कुटि: कौटिल्यं वा । भृकुस-भृकुटिशब्दावपि नारायणकण्ठी मन्यते ।। २. ४. १०१ ।।
10
मालेषीकेष्टकस्यान्तेऽपि भारि-तूल-चिते
॥ २. ४. १०२॥ माला-इषीका-इष्टकाशब्दानां केवलानामन्ते वर्तमानानां च भारिन्तूल-चितशब्देषूत्तरपदेषु परेषु ह्रस्वो भवति यथासंख्यम् । मालां बिभर्तीत्ये- . वंशीलः--मालभारी, उत्पलमालभारी; मालभारिणी, उत्पलमालभारिणी; 15 इषीकतूलम्, मुजेषीकतूलम् ; इष्टकचितम्, पक्वेष्टकचितम् । इदमेवान्तःग्रहणं ज्ञापकम् ग्रहणवता नाम्ना न तदन्तविधिः इति, तेनदिग्धपादोपहतः सौत्रनाडिरित्यादौ पदादेशा-ऽऽयनरण प्रत्ययादयो न भवन्ति ॥ १०२॥
न्या० स०-मालेषो०। मालादिभिः प्रकृतस्य नाम्नो विशेषणात् तदन्तलाभात्20 केवलस्य व्यपदेशिवद्भावाद् ह्रस्वसिद्धौ किमर्थमन्तग्रहणमित्याशङ्कायामाह-इदमेवेति ।। २.४.१०२ ।।
गोण्या मेये ॥ २. ४. १०३ ॥
गोणीशब्दस्य मानवाचिन उपचारान्मेये वर्तमानस्य ह्रस्वो भवति । गोण्या मितो गोणिः । मेय इति किम् ? गोणी ॥ १०३ ।।
25