________________
[पा० ४. सू० ७६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३९७
निर्दिष्टमिति निर्दिश्यमानानाम् इति न्यायेन सकलस्याप्यादेश प्राप्तेऽन्त्यग्रहणम्, उत्तरार्थं च, तेन "भोजसूतयो:०" [ २. ४. ८१.] इत्यत्र “अनेकवर्णः सर्वस्य" [ ७. ४. १०७. ] इति न्यायान्न सर्वयोर्भोज-सूतशब्दयोः ष्यादेशः । देवदत्त्येति-शब्दशक्तिस्वाभाव्यात् ष्यादेश आबन्तसहित एव स्त्रीलिङ्गमभिव्यनक्ति, एवं-कारोषगन्ध्येत्यत्रापि । कान्यकुब्जीत्यत्र कन्या कुब्जा यत्रेति "ड्यापो बहुलम्०" [ २. ४. ६६.] 5 इति ह्रस्वः, यद्वा कन्याशब्दं केचित् परत: स्त्रीलिङ्ग मन्यन्ते । प्रातभागीति-ननु च ऋषिवचन एवायमृतभागः, तत्रानार्षत्वमपि नास्तीति द्वयङ्गविकलत्वम्, सत्यम्-शास्त्रेऽस्मिन् प्रदेशान्तरेऽपि ऋषिश्रुत्या विहितः "ऋषि-वृष्ण्यन्धक०" [६. १. ६१.] इति प्रत्यय आर्ष इति रूढः, अयं तु "बिदादिभ्यः" [६. १. ४१.] इत्येवं विहितत्वादनार्ष इति प्रत्युदाह्रियते; ऋतः-प्राप्तो भग:-पुण्यं येन, अथवा ऋतेन-सत्येन भज्यते वा ।10 औपगवीति-उपगता गावोऽस्यानेन वेत्युपगुः । बहुकारीषगन्धा निर्वाराहिरित्यत्राणिअन्तस्य स्त्रीवृत्तित्वेऽपि मुख्याधिकारात् तस्यान्यपदार्थे गुणीभूतत्वेन मुख्यत्वाभाव इति । नन्वते याबादयः स्त्रीप्रत्ययाः स्त्रीत्वस्य द्योतका न तु वाचकाः, तत्र यथा विद्युदादयः शब्दाः स्त्रीप्रत्ययमन्तरेण स्वमहिम्नव स्त्रीत्वं प्रतिपादयन्ति तथा खटवादयोऽपि प्रतिपादयिष्यन्ति, किमेभ्यः स्त्रीप्रत्ययविधानेन ? उच्यते-विचित्रशक्तयो हि भावा भवन्ति, तेऽत्र 15 यथा-घनतरतिमिरनिकरनिरुद्धपदार्थ-सार्थेऽपि निशीथे गगनतलप्रसृमरांशुरचिरांशुरितरनिरपेक्षतयैवात्मानं प्रकाशयति, न चैवं स्तम्भादयः, तेऽपि चास्मदादीनां प्रदीपादिप्रकाशकसव्यपेक्षा प्रात्मानं प्रकाशयन्त्येव, संश्लिष्टानां तु प्रदीपादिनिरपेक्षा एव; यथा वा सोपलश्चण्डांशकरनिकरसंपर्कसमासादितमाहात्म्यः स्वयं शीतोऽपि सान्तरमवस्थितं दाह्य दहति, न तु प्रत्यासन्न, प्रत्युत, तत्र शैत्यमुपदर्शयति, तथा शब्दा अपि शक्तिवैचित्र्यात् 20 क्वचित् पदत्वेन पदान्तरसापेक्षेण पदान्तरानपेक्षेण च स्त्रीत्वं प्रतिपादयन्ति, तत्र पदान्तरसापेक्षेण यथेयं गौरित्यादि, अत्र गवाद्यर्थस्योभयलिङ्गत्वादियमिति पदान्तरापेक्षेण गवादिपदेन स्त्रीत्वं प्रतिपाद्यते. तस्य स्त्रीत्वाप्रतिपादने इयमिति न स्यात । पदान्तरानपेक्षेण नाममात्रेणादेश-प्रत्ययाभ्यां च, तत्र नाममात्रेण यथा-स्वसा दुहितेत्यादयः, अत्र नाममात्रमेव स्त्रीत्वप्रतिपत्तौ समर्थमिति स्त्रीप्रत्ययाभावः, आदेशेन सप्रत्ययेना-25 प्रत्ययेन च, सप्रत्ययेन-क्रोष्ट्री, कारीषगन्ध्येति, अप्रत्ययेन-तिस्रः, चतस्र इति ; प्रत्ययेनैकेनानेकेन च, तत्रैकेन-राज्ञी, खट्वेति; अनेकेन सान्तरेण निरन्तरेण सान्तरनिरन्तरेण च, सान्तरेण-कालितरा हरिणितरेति, निरन्तरेण-आर्याणी भवानी, सान्तरनिरन्तरेणआर्यारिणतरा भवानितरेति । तदेवमनेकप्रकारायां लिङ्गप्रतिपत्तो नैक: प्रकारः शक्यो नियन्तम्, शब्दशक्तिस्वाभाव्यात् ।। २.४.७८ ।।
30
कुलारण्यानाम् ॥ २. ४. ७६ ॥
पुणिक-भुणिक-मुखरप्रभृतयः कुलाख्याः, कुलमाख्यायते आभिरिति कृत्वा, तासामनार्षे वृद्धेऽरिणजन्तानामन्तस्य स्त्रियां ष्यो भवति; अबहुस्वरा