________________
३६६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ७८.]
तदपवादो योगः । युवतिः । यूनीत्यपि कश्चित्, न तच्छिष्टसंमतम् । कथं युवती ?, यौतेरौणादिककिदतिप्रत्ययान्तात् "इतोऽक्त्यर्थात्" [२. ४. ३२.] इति डीभविष्यति । मुख्यादित्येव--अतियूनी, निथुनी ।। ७७ ।।
न्या० स०--यूनस्तिः । युवतिरित्यत्र ङीरिति जातिग्रहणे सकृद् बाधित इति न्यायात् पश्चात् “इतोऽक्त्यर्थात्" [२. ४. ३२.] इत्यपि न ॥ २. ४. ७७ ।। 5 अनाई वृद्धेणिञो बहुस्वरगुरुपान्त्यस्यान्त्यस्य
व्यः ॥ २. ४. ७८ ।। अनार्षे वृद्धे विहितौ यावरिणौ प्रत्ययौ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नाम्नोऽन्त्यस्य स्त्रियां ष्य इत्यादेशो भवति, गुरुग्रहणादनेकव्यञ्जनव्यवधानेऽपि भवति; गुरुग्रहणं हि दीर्घपरिग्रहणार्थं संयोगपरपरि-10 ग्रहार्थं च, अन्यथा दीर्घोपान्त्यस्येत्युच्येत । करीषस्येव गन्धोऽस्य करीषगन्धिः, तस्यापत्यं पौत्रादि स्त्री इत्यरण, तस्य ष्यादेश:-कारीषगन्ध्या, एवं-कौमुदगन्ध्या । देवदत्तस्यापत्यं पौत्रादि स्त्री इतीज , तस्य ष्यादेश:--देवदत्त्या, एवंवाराह्या, बालाक्या। अनार्ष इति किम् ? वासिष्ठी, वैश्वामित्री। वृद्ध इति किम् ? वराहस्य प्रथमापत्यं स्त्री-वाराही, अहिच्छत्रे जाता--प्राहिच्छत्री, एवं--15 . कान्यकुब्जी । अरिणत्र इति किम् ? ऋतभागस्यापत्यमिति बिदाधित्वादन - आर्तभागी, एवम्--प्राष्टिषेणी । बहुस्वरेति किम् ? दाक्षी, प्लाक्षी । गुरूपान्त्यस्येति किम् ? प्रौपगवी, कापटवी। अणिञन्तस्य सतो बहुस्वरादिविशेषणं किम् ? द्वारस्यापत्यं पौत्रादि स्त्री इतीञि--दौवार्या, तथा-उडुलोम्नोऽपत्यमितीजि--ौडुलोम्या, सारलोम्या; अत्रेजः पूर्वमबहुस्वरत्वेऽगुरूपान्त्यत्वे च20 सत्यपीजि सति बहुस्वरत्वाद् गुरूपान्त्यत्वाच्च यथा स्यात् । स्त्रियामित्येव-- कारीषगन्धः, वाराहिः पुमान् । मुख्यस्येत्येव--बहवः कारीषगन्धा यस्यां सा-- बहुकारीषगन्धा, निर्वाराहिः । कथं सौधर्मी ?, आयस्थूणी ?, भौलिङ्गी ?, आलम्बी ?, आलच्ची ?, कालच्ची प्रौद्ग्राहमानी ? ; --गौरादिपाठात् । षित्करणं "ष्या पुत्रपत्योः०" [२. ४. ८३.] इत्यत्र विशेषणार्थम् ।। ७८ ।। 25
न्या० स०--अनार्षे० । अन्त्यस्य व्य इति-अणन्तमित्रन्तं च बहुस्वरं नाम