SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३८६ ] बृहद्वृत्तिलघुन्याससंवलिते [पा० ४. सू० ५५.] स्त्रीत्वाभावेऽपि द्रोणी-कुटीजातेनित्यस्त्रीत्वात् प्रतिषेधः प्राप्नोति ;-नैवम्गौरादिपाठाद् भविष्यति । शूद्रवर्जनं किम् ? शूद्रा। कथं महाशूद्रीआभीरजातिः ?, नात्र शूद्रशब्दो जातिवाची, किं तर्हि ?-महाशूद्रशब्दः, यत्र तु शूद्र एव जातिवाची तत्र भवत्येव डीनिषेधः-महती चासौ शूद्रा च महाशूद्र ति । जातिलक्षणस्य चायं प्रतिषेधः, तेन-धवयोगे भवत्येव शूद्रस्य । भार्या-शूद्री। आदित्येव-याखुः, तित्तिरिः; कोयष्टिः । मुख्यादित्येवबहुशूकरा भूमिः, बहुब्राह्मणा शाला। कथं सुपर्णी ? सुपर्णशब्दस्यापि जातिवाचित्वात्, तस्य च मुख्यत्वात् ।। ५४ ।। न्या० स०--जातेरया०। जाति: सामान्यमभिन्नबुद्धिध्वनिप्रसवनिबन्धनमर्थः, तत्र च कार्यासम्भवात् तद्वाचिनो ग्रहणमित्याह-जातिवाचिन इति । सकृदुपदेशव्यङ्गयत्वे 10 इति-उभयोरपि संबध्यते। आकृतिग्रहरणेत्यत्र गृह्यतेऽनेनेति प्राकृति:-अवयवरचना ग्रहणं यस्याः। लिङ्गानां चेति-लिङ्गानां सर्व-सर्वत्वं भजति लिङ्गसमुदायं वा, सर्व भजते वा। सकृदाख्यातेत्यत्र सकृदाख्याता सती नियमेन ग्राह्या। पात्रीति-अव्युत्पन्नोऽयं, "हु-या-मा०" [ उरणा० ४५१. ] इति त्रप्रत्ययान्तो वा, बडन्तस्य तु टिद्वारा ङी: सिद्ध एव । ब्राह्मरणीति-अयमप्यव्युत्पन्नः, “चिक्करण" [ उरणा० १६०.] इति 15 निपातो वा, ब्रह्म अणति कर्मणोऽणि पृषोदरादिनिपाते, अपत्यारिण वाऽणन्तत्वाद् डी: सिद्ध एव । बह वचीति-"नाप्रियादौ" [ ३.२ ५३. ] इत्यनेन न पूवन्निषेधः, तत्र पूरण्यबन्तस्य ग्रहणात् । यद्यपि कठादयोऽपि ब्राह्मणविशेषास्तथापि कठादीनामत्रिलिङ्गत्वं न, यथा-कठेन प्रोक्त वेत्त्यधीते वा-कठं ब्राह्मणकुलमिति तुर्य जातिलक्षणं विधेयमेव । कुटीति-मतान्तरेण कुटीशब्दस्य नित्य-स्रीत्वं, स्वमते "गृहे कुट:"20 [ लिङ्गानु० पुस्त्री० श्लो० २ ] इति लक्षणेन पुस्त्रीत्वमिति मतान्तरेणेदं दर्शितम् । कथं महाशूद्रीति-केवलात् शूद्रात् ङ्यां महती चासौ शूद्री चेति महाशूद्रीति परस्याभिप्रायः। महांश्चासौ शूद्रश्चेति व्युत्पत्तिमात्रमिदम्, यथा-पलिक्नीत्यत्र वत्तिनिमित्तं जातिः, जातिद्वारेण ङी: । आभीरजातिरिति-वैश्यभेद एव, आभीरो गवाद्युपजीवी। कथं सुपर्णीति-पर्णशब्दस्यैव जातित्वं, तस्य च कृते समासे अमुख्यत्वमित्यभि-25 प्रायः ।। २.४.५४ ।। पाक-कर्ण-पर्ण-वालान्तात् ।। २. ४. ५५ ।। पाकाद्यन्ताज्जातिवाचिनो नाम्नः स्त्रियां ङीर्भवति । प्रोदनस्येव पाकोऽस्या:-पोदनपाकी, क्षणं क्षणेन वा पाकोऽस्या:-क्षणपाकी, पाखुकर्णी, शकुकर्णी, मुद्गपर्णी, सालपर्णी, गौरिव वाला अस्याः-गोवाली, अश्ववाली; 30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy