________________
[ पा० ४. सू० ५६ - ५८ . ] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
संज्ञा एता ओषधी जातीनाम् । जातेरित्येव - बहुपाका यवागूः । प्रासां जातीनां नित्यस्त्रीरूपत्वाद् वचनम्, एवमुत्तरसूत्रत्रयेऽपि ।। ५५ ।।
[ ३८७
न्या० स०- - पाककर० । आखुकरर्णीति - आखोः कर्ण इव कर्णः पत्रं यस्या:, शङ कुरिव करर्णोऽस्याः, मुद्गस्येव परर्णान्यस्या:, “सल गतौ " सल्यत इति घत्रि - साल:, दन्त्यादिः, सालस्येव परर्णान्यस्याः ।। २. ४. ५५ ।।
असत्-काण्ड-प्रान्त-शतैकाञ्चः पुष्पात् ॥ २. ४. ५६ ॥
सदादिरहित शब्दपूर्वो यः पुष्पशब्दस्तदन्ताज्जातिवाचिनो नाम्नः स्त्रियां ङीर्भवति । शङ्खपुष्पी, सुवर्णपुष्पी, हिरण्यपुष्पी । सदादिप्रतिषेधः किम् ? सत्पुष्पा, काण्डपुष्पा, प्रान्तपुष्पा, शतपुष्पा, एकपुष्पा, प्राक्पुष्पा, प्रत्यक्पुष्पा ।। ५६ ।।
1
न्या० स०—–श्रसत्काण्ड० । शङ्खपुष्पीति-शङ्खादिवर्णः शङ्खादिशब्द:, तेन शङ्खादि पुष्पं यस्याः । सत्पुष्पेत्यादि - अत्र सन्ति काण्डे प्रान्ते शतमेकं च पुष्पं पुष्पाणि वा यस्या इति विग्रहः प्राक्पुष्पेति- प्रश्वति तवाप्रत्ययान्तः प्राक् प्रत्यक् पुष्पं यस्याः
।। २. ४. ५६ ।
असं-भस्त्रा- जिनैक-शण-पिण्डात् फलात्
।। २. ४. ५७ ॥
समादिप्रतिषेधः
समादिवजितशब्दपूर्वो यः फलशब्दस्तदन्ताज्जातिवाचिनो नाम्नः स्त्रियां ङीर्भवति । दासीफली, पूगफली; दाडिमफली । किम् ? संफला, भस्त्राफला, ग्रजिनफला, एकफला; एकान्न े च्छन्त्यन्ये, शरणफला, पिण्डफला; औषधिजातिविशेषारणां संज्ञा एताः ।। ५७ ।।
अनञो मूलात् ॥ २. ४. ५८ ।।
नञ्वजितशब्दपूर्वो यो मूलशब्दस्तदन्ताज्जातिवाचिनो नाम्नः स्त्रियां
5
10
15
न्या० सं०-- असंभस्त्रा० । दासीफलीति - दासीव पूगो दाडिमं च फलं यस्या इति । संफलेति-संगतं भस्त्रेव अजिनमिव एकं च फलमस्याः । शरणफलेति-शरणस्येव फलान्यस्या: । पिण्डफलेति - पिण्डाकाराणि फलान्यस्याः पिण्डफला कटुतुम्बी, यन्निघण्टु:-"कटुकाऽलाबुती तुम्बी लवा पिण्डफला तथा " ।। २. ४. ५७ ।।
20
25