SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० ५३-५४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३८५ न्या० स०--पाणि । पाणिगृहीती इति प्रकारो येषां ते तथा, जसः सूत्रत्वाल्लुप् ।। २. ४. ५२ ।। पतिवम्यन्तर्वन्यौ भार्या-गभिण्योः ॥ २. ४. ५३ ॥ भार्या-अविधवा स्त्री, तस्यामभिधेयायां पतिमच्छब्दाद डीरस्य च पतिवत्नादेशः, तथा गर्भिण्यां स्त्रियामभिधेयायामन्तर्वच्छब्दाद् डीरस्य 5 चान्तर्वत्नादेशो निपात्यते; निपातनादेव च अधिकरणप्रधानादप्यन्तःशब्दान्मत्वर्थीयो मतुर्भवति । भार्येति किम् ? पतिमती पृथ्वी । गर्भिणीति किम् ? अन्तरस्यां शालायामस्ति ।। ५३ ।।। न्या० स०--पतिवन्यन्त० । अधिकरणप्रधानादपीति-"तदस्यास्त्यस्मिन्" { ७. २. १. ] इत्यत्र तदिति प्रथमान्ताद् विहितत्वेनाप्राप्त इत्यर्थः ।। २. ४. ५३ ।। 10 जातेरयान्त-नित्यस्त्री.शूदात् ॥ २. ४. ५४ ॥ जातिवाचिनोऽकारान्तानाम्नः स्त्रियां डीर्भवति, न चेत् तद् यान्तं नित्यस्त्रीजातिवाचि शूद्रशब्दो वा भवति । तत्र जातिः काचित् संस्थानव्यङ्गया, यथा-गोत्वादिः, सकृदुपदेशव्यङ्गयत्वे सत्यत्रिलिङ्गाऽन्या, यथाब्राह्मणत्वादिः, अत्रिलिङ्गत्वं देवदत्तादेरप्यस्तीति सकृदुपदेशव्यङ्गयत्वे सती-15 त्युक्तम्, गोत्र-चरणलक्षणा च तृतीया, यदाहुः "प्राकृतिग्रहणा जातिलिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या, गोत्रं च चरणैः सह" ।। १ ।। इति । कुक्कुटी, सूकरी, तटी, पात्री; तथा ब्राह्मणी, वृषली; तथा नाडायनी, चारायणी; कठी, बह वृची। जातेरिति किम् ? मुण्डा, शुक्ला, कृता,20 देवदत्ता । अयान्तेति किम् ? इभ्या, क्षत्रिया, वैश्या, अर्या; गवयी, हयी, मुकयी, मनुषी, मत्सी, ऋश्यी इति गौरादिपाठात् । अन्तग्रहणं साक्षात्प्रतिपत्त्यर्थम्, तेन-वतण्डस्यापत्यं पौत्रादि स्त्रीति यन, तस्य लोपे स्थानिवद्भावेऽपि वतण्डीत्यत्र यान्तलक्षणः प्रतिषेधो न भवति । नित्यस्त्रीजातिवर्जनं किम् ? मक्षिका, यूका, खट्वा । कथं तर्हि द्रोणी ?, कुटी ?, अत्र हि शब्दयोनित्य-25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy