SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ३८४ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ४. सू० ५०-५२.] निर्देशात्, तुल्ययोगे हि पूर्वेण शब्देन सह पतिशब्दस्य नकारो भवतीति सूत्रार्थे सपत्नीति निर्देशो न स्यात् । ननु 'सादेः पत्युनः' इत्येकयोगो विधीयतां, सादित्वेन बहुव्रीहावपि अन्यस्मिन् वा भविष्यति, नवम्-मुख्यादित्यधिकारात् सादावेव स्यात्, न तु बहुव्रीहौ, पृथग्योगे तु पूर्वसूत्रे मुख्यादिति बहुव्रीहिसमासस्यैव विशेषणं, न पत्युः ।। २. ४. ४६ ।। सपत्न्यादौ ॥ २. ४. ५० ॥ सपल्यादौ यः पतिशब्दस्तस्मात् स्त्रियां डीभवति, नकारश्चान्तादेशः; पुनविधानं नित्यार्थम् । समानः पतिरस्याः समानस्य पतिरिति वा-सपत्नी, एवम्-एकपत्नी, वीरपत्नी, पिण्डपत्नी, भ्रातृपत्नी, पुत्रपत्नी; · षडेते सपत्न्यादयः । समुदायनिपातनं समानस्य सभावार्थम्, पुंवद्भावप्रतिषेधार्थं चसपत्नीभार्यः, सपन्या अयं-सापत्नः ।। ५० ।।। 10 न्या० स०--सपत्न्यादौ। सभावार्थमिति-धर्मादिषु पत्नीशब्दस्यापाठादित्यर्थः । पुंवद्धावप्रतिषेधार्थ चेति-"परत: स्त्री०" [ ३. २. ४६. ] इति “जातिश्च णि." [ २. ३. ५१. ] इति च प्राप्तस्य ।। २. ४. ५० ।। ऊढायाम् ॥ २. ४. ५१ ॥ पत्युः केवलादूढायां-परिणीतायां स्त्रियां ङीर्भवति, नकारश्चान्तादेशः । 15 पत्नी, यजमानस्य पत्नी, वृषलस्य पत्नी। ऊढायामिति किम् ? पतिरियं संगृहीता, अभार्या वेत्यर्थः ॥ ५१ ।। न्या० स०--ऊढायाम् । याऽग्निसाक्षिपूर्वकेण पाणिग्रहणेन परिणीता सेह गह्यते । तदन्तविधिश्च नामग्रहणे नाश्रीयत इत्याह-केवलादिति । संगहीतेत्यत्र अनगि साक्षिकं कामादितमदारकर्मत्वे परिगृहीतेत्यर्थः। प्रभार्या चेत्यत्र भार्याया अन्या20 अप्रधानभूता भगिन्यादिरुच्यते ।। २. ४. ५१ ।। पाणिगृहीतीति ॥ २. ४. ५२ ॥ इतिशब्दः प्रकारार्थः, पाणिगृहीतीप्रकाराः शब्दा ऊढायां स्त्रियां यन्ता निपात्यन्ते । पाणिगृहीतोऽस्याः पाणौ वा गृहीता-पाणिगृहीती, एवंकरगृहीती, पाण्यात्ती, करात्ती। ऊढायामिति किम् ? यस्या यथाकथञ्चित्25 पाणिगुह्यते सा पाणिगृहीता । बहुव्रीहावेवेच्छन्त्यन्ये ॥ ५२ ॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy