________________
३८० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ४०-४२.]
10
विद्यमानपूर्वपदादित्येव-सहनासिका, अनासिका, विद्यमाननासिका; सोदरा, अनुदरा; विद्यमानोदरा; इत्यादि । नियमः किम् ? पृथुजघना, सुललाटा, दृढहृदयेत्यादौ बहुस्वराद् न भवति; कल्याणगुल्फा, सुपार्वा इत्यादौ संयोगोपान्त्यान्न भवति । अङ्ग-गात्र-कण्ठेभ्यो ङीप्रत्ययं नेच्छन्त्यन्ये । केचित् तु दीर्घजिह्वशब्दादपीच्छन्ति-दीर्घजिह वी, दीर्घजिह्वा कन्येति ।। ३६ ।। ।
न्या० स०--नासिको०। सहनासिकेति-सहस्य सो विकल्पेन भवतीत्यत्र न । तुङ्गनासिकीति-"तुजु वलने च" इत्यस्य घनि उद्गादित्वाद् गे-तुङ्गा। समदन्तीतिसमशब्दोऽजन्तः। कल्याणगुल्फेति-"गल अदने" "कलि-गलेरस्योच्च" [ उणा० ३१५. ]. इति फे-गुल्फः, कल्याणी गुल्फावस्याः ।। २. ४. ३६ ॥
नव-मुखादनाम्नि ॥ २. ४. ४० ॥
असह-न-विद्यमानपूर्वपदाभ्यां स्वाङ्गाभ्यां नख-मुखशब्दाभ्यां स्त्रियां ङी; भवति, अनाम्नि-असंज्ञायामेव । शूर्पनखी, शूर्पनखा; अतिनखी, अतिनखा; चन्द्रमुखी, चन्द्रमुखा; अतिमुखी, अतिमुखा । अनाम्नीति किम् ? शूर्पणखा, व्याघ्रणखा, वज्रणखा, गौरमुखा, श्लक्ष्णमुखा, कालमुखा; संज्ञाशब्दा एते ।। ४० ॥
15 न्या० स०--नखमु० । संज्ञाशब्दा एते इति-न तु यौगिका इत्यर्थः ।।२.४.४०॥ पुच्छात् ।। २. ४. ४१ ॥
असह-न-विद्यमानपूर्वपदात् स्वाङ्गात् पुच्छात् स्त्रियां ङीर्वा भवति । दीर्घपुच्छी, दीर्घपुच्छा; अतिपुच्छी, अतिपुच्छा । असह-न-विद्यमानपूर्वपदादित्येव-सपुच्छा, अपुच्छा, विद्यमानपुच्छा ।। ४१ ।।।
20 न्या० स०-पुच्छात् । नासिकादिनियमान्निवृत्तौ वचनम् । यद्येवं नासिकादिसूत्र एव कुतो न पठ्यते ? किमर्थं पृथुगुद्दिश्यत इति, उच्यते-पुच्छादित्यस्यैवोत्तरत्रानुवृत्त्यर्थम् ।। २. ४. ४१ ।।
कबर-मणि-विष-शरादेः ॥ २. ४. ४२ ॥ कबरादिपूर्वात् पुच्छात् स्त्रियां नित्यं ङीर्भवति, पुनर्विधानं नित्यार्थम् ।25