________________
[पा० ४. सू० ४३-४४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३८१
कबरं-कर्बुरं कुटिलं वा पुच्छमस्याः-कबरपुच्छी, मणिः पुच्छेऽस्या मणिपुच्छी, विषं पुच्छेऽस्या विषपुच्छी; शरं पुच्छेऽस्याः शरपुच्छी ।। ४२ ।।
न्या० स०-कबरम० । “न सप्तमीन्द्वादिभ्यश्च" [ ३. १. १६५. ] इत्यनेन मणिपुच्छीत्यादिषु मण्यादिशब्दानां पूर्वनिपातः ।। २. ४. ४२ ।।
पक्षाच्चोपमानादेः ॥ २. ४. ४३ ॥
उपमानपूर्वात् पक्षशब्दात् पुच्छशब्दाच्च स्त्रियां ङीर्भवति । उलूकस्येव पक्षावस्या उलूकपक्षी शाला, उलूकस्येव पुच्छमस्या उलूकपुच्छी सेना ॥ ४३ ।।
न्या० स०-पक्षाच्चो० । उपमीयतेऽनयेति बाहुलकात् “उपसर्गादातः” [५. ३. ११०.] इत्यङ, प्रसिद्धसाधादप्रसिद्धविषये येन ज्ञानमुपजन्यत इति । “कबर-मणि-10 विष-शरादेः पक्षाच्चोपमादेस्तु" इत्येकयोगाकरणात् स्वाङ्गादेरिति निवृत्तम् । उलकस्येव पक्षावस्या इति-पत्र उलूकशब्द उलुकपक्षे उलूकपुच्छे च वर्त्तते, यथोष्ट्रमुखे उष्ट्रशब्दः, अतश्चोलूकशब्द उपमानं भवतीत्युलूक इव पक्षावस्या इत्यादिविग्रहः, उलूकस्येव पक्षावित्यादि त्वर्थकथनम् ।। २. ४. ४३ ।।
क्रीतात् करणादेः ॥ २. ४. ४४ ॥
करणमादिरवयवो यस्य तस्मात् क्रीतान्ताद् नाम्नोऽकारान्तात् स्त्रियां 'डीभवति । अश्वन क्रीयते स्म अश्वक्रीती, धनक्रीती, वस्त्रक्रीती, विभक्त्युत्त्पत्तेः पूर्वमेव कृदन्तेन समासः; मनसाक्रीती, अलुप् । करणग्रहणं किम् ? सुक्रीता, दुष्क्रीता। . आदिग्रहणं किम् ? अश्वन क्रीता, नह्यत्र करणं क्रीतान्तस्य नाम्न आदिरवयवो भवति, ऐकपद्याभावात् । कथं “सा हि तस्य धनक्रीता20 प्राणेभ्योऽपि गरीयसी" इति, धनं च सा क्रीता चेति कर्मधारयोऽयम्, करणविवक्षायामपप्रयोग एव। केचित् तु धनेन क्रीतेत्यत्राबन्तेनापि समासमिच्छन्ति बहुलाधिकारात्, तदाऽकारान्तत्वाभावात् ङीन भवति ।। ४४ ।।
न्या० स०-कीतात् कर। केचित् त्विति-तन्मतेऽपि प्रत्ययोत्पत्तेः प्रागिति समासो बहुलाधिकाराल्लभ्यते, मन्मतेऽपि बहुलाधिकाराश्रयणे तथैव ।। २. ४. ४४ ॥ 25